________________
३७४
कातन्त्रव्याकरणम्
७८२. तथोश्च दधातेः [३।६।१०२] [सूत्रार्थ
'त्-थ्-स्-ध्व' के परे रहते 'धा' धातुसम्बन्धी ‘दध्' रूप के उपस्थित होने पर दकार को चतुर्थ वर्ण आदेश होता है।।७८२।
[दु० वृ०]
दधातेर्धान्तस्यादेश्चतुर्थत्वं भवति तथोः सिध्वोश्च परतः। धत्तः, धत्थः। धत्से, धद्ध्वे। धान्तस्येति किम्? दधाति, दधासि ।।७८२।
।।इति दौर्गसिंह्यां वृत्तावाख्याते तृतीयाध्याये षष्ठोऽनुषङ्गलोपादिपादः समाप्तः।।
[दु० टी०]
तथो०। चकारः सिध्वोरनुकर्षणार्थो न्यायादित्याह- सिध्वोश्चेति सुखनिर्देशार्थ एव। तिग्निर्देशश्चक्रीयितलुगन्तार्थ इत्येके। दात्त:, दात्य:। धात्तः, धात्थः।।७८२।
।।इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायामाख्याते तृतीयाध्याये षष्ठोऽनुषङ्गलोपादिपादः समाप्तः।।
[वि० प०]
तथो०। घढधभान्त इह न सम्भवतीत्याह - दधातेर्धान्तस्येति। जुहोत्यादित्वाद् द्विर्वचनम्, अभ्यस्तानामाकारस्येत्याकारलोपः। इह पारिशेष्यादभ्यासदकारस्यादिचतुर्थत्वं धकारः।।७८२।
।।इति श्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायामा-याते
तृतीयाध्याये षष्ठोऽनुषङ्गलोपादिपादः समाप्तः।।
[समीक्षा]
'धत्तः, धत्से' इत्यादि शब्दरूपों के सिद्ध्यर्थ दकार को धकारादेश का विधान दोनों व्याकरणों में किया गया है। पाणिनि का सूत्र है-“दधस्तथोश्च' (अ० ८।२।३८)।
[विशेष वचन] १. तिग्निर्देशश्चेक्रीयितलुगन्तार्थ इत्येके (दु० टी० )।