________________
कातन्त्रव्याकरणम् सम्प्रसारणमिति न वक्तव्यमेव। अनुषेर्बहुस्वरादनिनोगुर्वाडोर्यादिश्यते स्त्रियाम्। कारीषस्येव गन्धोऽस्य इति कारीषगन्धः, तत इण, कारीषगन्ध्यायाः पुत्रः कारीषगन्धीपत्र:। कारीषगन्ध्यायाः पतिः कारीषगन्धीपतिः। एवं परमकारीषगन्धीपुत्रः, परमकारीषगन्धीपतिः। यङन्तस्यापीति पुत्रपत्योरप्राधान्ये तु न दृश्यते- 'कारीषगन्ध्यायाः पुत्रकुलम्, कारीषगन्ध्यायाः पतिकुलम्'। एवं स्त्रीप्रत्ययस्याप्राधान्येऽपि। न दृश्यते कारीषगन्ध्यामतिक्रान्त: अतिकारीषगन्ध्यः, तस्य पुत्र: अधिकारीषगन्ध्यपुत्रः, अतिकारीषगन्ध्यपतिः। तथा बन्धो बहुव्रीहो– कारीषगन्ध्या बन्धुरस्य कारीषगन्धीबन्धुः। एवं परमकारीषगन्धीबन्धुः । स्त्रीत्वोपसर्जने न दृश्यते- अतिकारीषगन्ध्यबन्धुः। मातामातृकमातृषु विभाषा-कारीषगन्ध्या माता अस्येति हे कारीषगन्धीमात। मातुरन् पुत्रस्तुतौ संबुद्धौ– कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः, कारीषगन्धीमाता, कारीषगन्ध्यामाता। एवं 'श्वफल्कस्यापत्यं स्त्री' इत्यणश्वाफल्कीपुत्रः, श्वाफल्कीपतिरिति। एवंभूता एव समासशब्दा इति यडादेशाऽपि इह नादृत एव।। ५४०।
[वि० प०]
सपरस्वरायाः। अथ किमर्थ परग्रहणं सस्वरायाः' इत्यास्ताम्। तदयुक्तम्- पूर्वेणापि सहभावोऽस्तीति वयेर्यकारस्य वकाराकारेण पूर्वेण सह सम्प्रसारणं स्यात् । तथान्तरङ्गत्वाद् वकारस्य 'प्राक् सम्प्रसारणे न सम्प्रसारणम्' इति प्रतिषेधादयमदोषः। तदप्ययुक्तम् । अनन्तरत्वात् प्राग् यकारस्यैव सम्प्रसारणं स्यात्। एवं च सति ‘ऊयतुः, ऊयुः' इति न सिध्यति। नैतत्, एवं लोके परेणैव स्वरेण सस्वरत्वमित्याह- परेणैवेति। ननु “सम्प्रसारणं यवृतोऽन्तस्थानिमित्ता:" (३। ८। ३३) इत्यनेन सम्प्रसारणसंज्ञा विधेया, सा चैतद्विधानमन्तरेण न सिध्यति, उत्पन्नस्य सत: संज्ञाकरणाद् अन्तरेण च संज्ञाम् एतद् विधानं न सिध्यति । इतरेतराश्रयदोषात् संज्ञाविधानं च न सिध्यतीत्याह-सम्प्रसारणमित्यादि। न हीदानी सम्प्रसारणसंज्ञा विधीयते येनासो संज्ञासंज्ञिनोविधानमन्तरेण न सम्भवतीति इतरेतराश्रयदोषमावहति। किन्तर्हि सम्प्रसारणनामधेयतया अन्तस्थानिमित्ता वृतो निमित्तत्वेन स्थिताः। केवलं “सम्प्रसारणं य्वृतोऽन्तस्थानिमित्ताः" (३। ८। ३३) इत्यनेनान्वाख्यास्यन्ते इत्यदोषः।
ननु यदि अन्तस्थानिमित्ता वृत: सम्प्रसारणम्, तत् किम् अन्तस्थाया इत्यनेन सम्प्रसारणस्यान्तस्थानिमित्तत्वादेवान्तस्थाया: स्थाने भविष्यति। न हि अन्यस्य स्थाने तावदन्तस्थानिमित्नत्वमुपपद्यते इत्याह–अन्तस्थेत्यादि। अन्यथा 'अभ्यासविकारेष्वपवादो नोत्सर्ग बाधते' (कात० प०६४) इति न्यायात् सम्प्रसारणविधिरपवादोऽप्युत्सर्गेणाभ्यासलोपेन बाध्यते ततो व्यथादीनां धातूनाम् "अभ्यासस्यादिळञ्जनमवशेष्यम्" (३। ३ । ९) इति यकारस्य लोपे वकारस्य संप्रसारणं स्यादिति। “विव्यथे' इति। "व्यथेश्च" (३। ४। ५) इति सम्प्रसारणम्। 'विव्याध' इति “परोक्षायामभ्यासस्योभयेषाम्" (३। ४। ४) इति।। ५४०।