________________
11 17:11
आचार्यशर्ववर्मप्रणीतम्
कातन्त्रव्याकरणम्
अथ तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
५४०. सपरस्वरायाः सम्प्रसारणमन्तस्थायाः [ ३ । ४। १ ] [ सूत्रार्थ]
'परवर्ती धातुस्वर के साथ अन्तस्थासंज्ञक 'य् र् ल् व्' वर्णों का सम्प्रसारण होता है' इसका अधिकार यहाँ से प्रारम्भ हो रहा है ।। ५४० ।
[दु० वृ०]
सह परेण धातुस्वरेणान्तस्थायाः सम्प्रसारणं भवत्यधिकृतं वेदितव्यम्। परेणैव सम्वरत्वं लोकतः सिद्धम्, परग्रहणं स्पष्टार्थम् । सम्प्रसारणं वृतोऽन्तस्थानिमित्ता नित्यत्वेन स्थिता अन्वाख्यास्यन्ते । अन्तस्थाग्रहणम् अभ्यासविकारबाधनार्थम् । तेन 'विव्यथे विव्याध' इत्यादीनां यस्याभ्यासं सम्प्रसारणं सिद्धम् ।। ५४० ।
[दु० टी० ]
सपर० । परश्चासौ स्वरश्चेति परस्वरः, सह परेण स्वरेण वर्तते इति वा विग्रहः । त्रिपदां बहुव्रीहिरभिधानाद् धात्वधिकाराच्च धातोरेव स्वर इत्याह - सहेत्यादि । सहग्रहणं स्वरस्यापि कार्यित्वप्रतिपत्त्यर्थम् । अन्यथा परः स्वरो यस्या अन्तस्थाया इति परस्वरोपलक्षिताया एव स्यात् । विशेषणं च व्यथादीनां व्यञ्जनपरस्य वस्य निवृत्त्यर्थमेव । पूर्वेणापि सहत्वमस्तीति त्रयंरपि यम्य सम्प्रसारणं स्यात् । अथ वस्य पूर्वं सम्प्रसारणं यस्य सम्प्रसारणं न भविष्यति, तदसत्। यकारस्यानन्तरत्वात् प्रागेव सम्प्रसारणमिति मनसि कृत्वाह - परेणैवेत्यादि । व्युत्पत्त्यर्थमाश्रित्य लोकव्यवहारं नानुसरन् बालः प्रवर्तते इति भावः ।
सम्प्रसारणविधाने सति य्वृतोऽन्तस्थानिमित्तायाः सम्प्रसारणसंज्ञायां च सत्यां विधानमिति इतरेतराश्रयदोषः इति हृदि कृत्वाह - सम्प्रसारणमित्यादि । नित्यत्वं पुनर्व्यवहारस्यानादित्वात्, न तु कूटस्थमविचाल्यमनपायि नित्यमिहोच्यते । अन्तस्थाग्रहणमन्तरेणापि अन्तस्थाया एव सिद्धम्, य्वृतोऽन्तस्थानिमित्तत्वाद् इत्याह- अन्तस्थाग्रहणमित्यादि । अन्यथा 'विव्याध विव्यथे ' इत्यत्राभ्यासस्यादिर्व्यज्जनमवशेष्यमिति यस्य निवृत्तौ वस्य सम्प्रसारणं प्रसज्येत । न पुनरिह पूर्वपरयोः पगे विधिवलवानिति युज्यते वक्तुम्, तदपवादविषयत्वात् । श्वयतेरभ्यासस्य सम्प्रसारणप्रतिषेधोऽपि न जापक उच्यते, सत्रिकाकान्यपि ज्ञापकानि भवन्तीति । पुत्रपत्यांस्तत्पुरुषे यङ: