________________
कातन्त्रव्याकरणम्
७५२. ध्मो धमः [३।६। ७२] [सूत्रार्थ] 'अन्' विकरण के परे 'ध्मा' धातु को 'धम' आदेश होता है।। ७५२ । [दु० वृ०] माधातोरनि परे धमादेशो भवति। धमति।। ७५२ । [समीक्षा पूर्ववर्ती सूत्र- सं० ७५० की समीक्षा द्रष्टव्य है। [रूपसिद्धि]
१. धमति। ध्मा + अन् + ति। 'मा शब्दाग्निसंयोगयो:' (१ । २६६) धातु से 'ति' प्रत्यय, 'अन्' विकरण तथा 'मा' को 'धम' आदेश।। ७५२।
७५३. स्थस्तिष्ठः [३।६। ७३] [सूत्रार्थ] 'अन्' विकरण के परे रहते ‘स्था' धातु को 'तिष्ठ' आदेश होता है।। ७५३ । [दु० वृ०] स्थाधातोरनि परे तिष्ठादेशो भवति। तिष्ठति।। ७५३ । [दु० टी०]
स्थः। तिष्ठेति षत्वनिर्देशो ज्ञापयति – न विकारावयवस्य षत्वम्। तेन 'तिस्रः' इत्यादि सिद्धमित्येके। प्रकृतिप्रवृत्तेः पुनर्वृत्तावविधिरिति न चिन्त्यते।। ७५३।
[बि० टी०]
स्थः। हेमकरेण विकारादेशयोर्भेद: कल्प्यते। एकदेशस्य यत् क्रियते स विकारः, समुदायस्य यत् क्रियते स आदेशः इत्युक्तं चतुष्टयप्रकरणे। अत एव षत्वनिर्देशाद् दुर्गवाक्येनाप्युक्तमिदम्, तस्य चेत्यत्र समुदायस्य यत् क्रियते स आदेश:। अत एवैकदेशत्वाद् विकारो भवति, तेन षत्वं स्यात्। समुदायस्य आदेशं प्रति चिह्न 'स्थस्तिष्ठः' इति षत्वनिर्देशात्। अन्यथा विकारद्वारेण षत्वं प्राप्तं कथं षत्वं निर्दिश्यते। इदं तु किञ्चिन्न लगत्येव, टीकाविरोधात् । षत्वप्रकरणे टीकाकार इदमाह – नन तिस्रादेशे सति विकारस्थत्वात् कथन्न षत्वमिति न देश्यम्, आगमस्तावदेकवर्णस्तत्साहचर्याद् विकारोऽपि यद्येकवर्ण: स्यात् तदैव षत्वम्, तस्मादेकवर्णोऽपि विकारो भवति, नैवम्। टीकाकृता स्वमतपक्ष एवाक्तम्, तत्तु दुर्गवाक्यहेमकराभ्यां परपक्षमाश्रित्योक्तम्। अत एवात्र सूत्रे दुर्गवाक्येऽन्यः आह - तिस्रादेशोऽयमनेकवर्णत्वादित्युच्यते। वस्तुतस्त्वेवं भेदः, नित्यवादिनो मते शब्दस्य नित्यत्वम् अस्यैवादेशशब्दप्रसङ्गे न स्यात् न ध्वंसं करोति। यथा "आन् शस्" (२। ३ । ९) इति। अनित्यवादिनो मते विकारो भवति शब्दध्वंसकृतत्वात्