________________
तृतीये आख्याताध्याये षष्ठोऽनुषगलोपादिपाद:
३२७ [दु० वृ०]
धातोरवयवस्य घो भवति धुट्यन्ते च। अधोक्ष्यत्, अधोक्। कथं दोग्धा ? आद्यन्तवद्भावात्।। ७३७।
[दु० टी०]
दादेः। द एवादिर्यस्यावयवस्येति विग्रहे नित्यत्वादडागमेऽपि कृते स्याद् व्यपदेशिवद्भावेन दुहप्रयोगरूपेषु ‘दोग्धि-दोग्धव्यः' इति यो दृष्टस्तस्यायं दुहिर्दादिरवयवो भवतीत्याह – दोग्धेत्यादि। द्रुहमुहष्णुहष्णिहां कथमिह विभाषेति ? सत्यम्। "मुहादीनां वा" (२३४९) इत्यत्र वाशब्दो बहुलार्थो मन्तव्यः। तेनालिङ्गानामपि धुट्येव घो भवति - द्रोग्धा, द्रोढा। मोग्धा, मोढा। स्नोग्धा, स्नोढा। स्नेग्धा, स्नेढा ।। ७३७।
[वि० प०]
दादेः। यदि दादेरिति धातोर्विशेषणं स्यात् तदा नित्यत्वादन्तरङ्गत्वाच्च पूर्वमडाममे कृते धातो: स्वरादित्वाद् दादित्वं न स्यात्, अवयवावयवविशेषणमित्याह – दादेरित्यादि। द एवादिर्यस्यावयवस्य स दादिरवयवो हकार इति। एकत्र "तृतीयादेर्घढधभान्तस्य०" (३।६।१००) इत्यादिना अन्यत्र "लोपे च दिस्योः " (३। ६।१०१) इति दस्य धत्वम्। यद्येवं दोग्धेति न सिध्यति अवयवावयविव्यवहारस्याभावादित्याह - आद्यन्तवद्भावादिति। अत्र मुद्रुहष्णुहष्णिहां विभाषा दृश्यते – मोग्धा, मोढा। द्रोग्धा, द्रोढा। स्नोग्धा, स्नोढा। स्नेग्धा, स्नेढा।। ७३७।
[बि० टी०]
दादे० । द एवादिर्यस्य स दादिरवयवो हकारः इति। तर्हि दोग्धेति आद्यन्तवद्भाव इत्युक्तम्। अनेनैव न्यायेन सिध्यति चेत्, न, अभिप्रायापरिज्ञानात्। अत एव द एवादिर्यस्येति। आदिशब्द: समीपवचनः, दकारात् समीपो यदीत्यर्थ इति। किन्तु यस्यावयवस्य यस्माद् धातोरवयवस्य समुदायार्थमाह स दादिरवयवः।। ७३७ ।
[समीक्षा]
'अधोक्, अधोक्ष्यत्, दग्धा, दोग्धा' इत्यादि शब्दरूपों के सिद्ध्यर्थ दकारादि धातुओं के हकार को घकारादेश दोनों व्याकरणों में किया गया है। पाणिनि का सूत्र है – “दादेर्धातोर्घः' (अ० ८।२।३२)। अत: उभयत्र समानता है।
[विशेष वचन] १. कथं दोग्धा ? आद्यन्तवद्भावात् (दु० वृ०)। २. “मुहादीनां वा'' इत्यत्र वाशब्दो बहुलार्थो मन्तव्यः (दु० टी०)। ३. यद्येवं दोग्धेति न सिध्यति अवयवावयविव्यवहारस्याभावात् (वि० प०)। ४. आदिशब्द: समीपवचन: (बि० टी०)।