________________
३१७
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः [दु० वृ०]
धातोरकारस्याननि प्रत्यये परे लोपो भवति। चिकीर्षिता। कुसुभं मगधं कर्ता कुसुभिता, मगधिता। विषयसप्तम्यपि। कण्डूः, लोलू:, यायावरः। तेनास्य च लोपे यलोप: स्यात् ।। ७२९।
[दु० टी०]
अस्य० । कुसुभं मगधं कर्तेति कुसुभ्यमगध्ययोरन्वाख्यानम्। अथ धातोरित्यधिकार: किमर्थः, धातोरनवयवस्य मा भूत् – अधुक्षदिति ? नैवम्, उपदेशसामर्थ्यात् “सणोऽलोप: स्वरेबहुत्वे" (३। ६। ३३) इति वचनाच्च अपुषदित्यणस्तर्हि प्राप्नोति प्रत्ययलोपे प्रत्ययलक्षणम् इति गुणप्रतिषेधः फलम्, णानुबन्धत्वात्। सिज्बाधाच्चणोऽपि द्विवचनम् अदुद्रुवदिति। व्यञ्जनादिति न सम्बध्यते, व्यावृत्तेरभावात्। विषयेत्यादि। यदि पुनरत्र परसप्तमी स्यात् तदा स्वरादेशस्य स्थानिवद्भावाद् यलोपो न स्यात्। अपिशब्देन परसप्तमी च कथ्यते, तेन 'अर्थान् प्रतीषिषति' इति "स्वरादेद्वितीयस्य" (३।३।२) इति द्विर्वचनं स्यात्। कार्यानुरोधादेकापीयं सप्तमी द्विधा वर्तते इति।। ७२९ ।
[वि० प०]
अस्य च। कुसुभं मगधं कर्तेति कुसुभ्यमगध्ययो: कण्डूयादिपठितयोरन्वाख्यानमिदम्। विषयेत्यादि। यदि निमित्तसप्तमीयं स्यात् तदा ‘स्वरादेशः परनिमित्तकः पूर्वविधि प्रति स्थानिवत्' (का० परि० ९) इति लुप्तस्याकारस्य स्थानिवद्भावात् “य्वोळञ्जनेऽये" (४। १। ३५) इति यलोपो न स्यात्। विषयसप्तम्यां तु नायं परनिमित्तकः इति न स्थानिवद् भवति। अपिशब्दात् परसप्तमी च। तेनार्थान् प्रतीषिषतीति सिद्धम् । अन्यथा पूर्वमकारस्य लोपे “स्वरादेर्द्वितीयस्य'' (३।३।२) इति द्विवचनं स्यात्, अस्वरत्वात् । यायावर इति ततो यातेर्वरः।। ७२९ ।
[समीक्षा
'चिकीर्षिता, चिकीर्षितुम्, धिनुतः, कुसुभिता' इत्यादि शब्दों के सिद्ध्यर्थ अकारलोप का विधान दोनों व्याकरणों में किया गया है। पाणिनि का सूत्र है – “अतो लोपः" (अ० ६४४८)। अत: उभयत्र समानता ही है।
[विशेष वचन]
१. विषयसप्तम्यपि - कण्डू:, लोलू:, यायावरः। तेनास्य च लोपे यलोप: स्यात् (टु० वृ०)।
२. व्यञ्जनादिति न सम्बध्यते व्यावृत्तेरभावात् (दु० टी०)। ३. कार्यानुरोधादेकापीयं सप्तमी द्विधा वर्तते इति (दु० टी०)। ४. अपिशब्दात् परसप्तमी च (वि० प०)।