________________
३०७
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपाद: ३०७ मत्स्यस्य यस्य स्त्रीकार ईये चागस्त्यसूर्ययोः।
तिष्यपुष्ययोर्नक्षत्रे अणि यस्य विभञ्जनात्।। मत्स्यस्य स्त्री मत्सी। अगस्त्यस्यापत्यमित्यण्। आगस्त्यस्यायम् आगस्तीयः। आगस्त्यस्येयम् आगस्ती। सूर्यस्यायं सौर्यः, तत्र भव: सौरीयः। सूर्यस्येयं सौरी दिक्। तैषमहः, तैषी रात्रिः। पौषमहः, पौषी रात्रिः। गणात् पृथगायिरुत्तरार्थः।। ७२५ ।
[दु० टी०]
यस्या० । अपत्यार्थविहितत्वादपत्यमित्युच्यते। न विद्यते स्वर: पूर्वो यस्मादिति बहुव्रीहिः। तद्धितानात्स्वर इति तद्धितस्याकारवर्जिते स्वर इत्यर्थः। ईये चेति चकारेण ईकारोऽनुकृष्यते। विभञ्जनादिति यस्येति योगविभागादित्यर्थः।। ७२५ ।
[वि० प०]
यस्यापत्य० । तद्धितानात् स्वर इति आकारवर्जिते तद्धितस्वरे इत्यर्थः। श्रुतेरभेदादिति। तेन तद्धितयकारे यलोपो न वक्तव्यः इति भावः। समूहे अकण्णिति, तमादित्वात्। यिन्नित्यादि। यिंश्च आयिश्च ईश्चेति बहुत्वाद् बहुवचनम्। ईकारः पुनः स्त्रियां विहितश्विप्रत्ययनिमित्तश्च गृह्यते। ननु यद्ययं न्याय्यः पाठः कथन्तर्हि तद्धितानात् स्वरे लोप इत्याह- तद्धितानामाकृतिप्रधानत्वादिति। एतदेवाह - तथा चेति। कथमन्यथा सोमशब्दाद् देवतार्थे विहितस्य यणो यकारस्य लोप: स्यादिति भावः। तत्र प्रकीर्तितग्रहणाद् देवतार्थे सोमशब्दाद् यण। तथा समग्रस्य भाव: कर्म वा सामग्री, उचितस्य भावः कर्म वा औचिती इत्यादावपि यलोपो दृश्यते इति भावः। यणन्तस्तु स्त्रियामपि नदादौ दृश्यते।
ननु चायं न्याय्योऽपि पाठस्तर्हि कथन्न कृत इति चेत् ? सत्यम्, अनेन वृत्तिकारेण परमतमावेदितमिति। अस्वरेत्यादि। "स्त्र्यत्र्यादेरेयण" (२।६।४), एकार: स्वर: पूर्वोऽस्य यकारस्येति। "ईये च" (२।६।१०) इति चकारात् स्त्रीकारे चेत्यर्थः। तदेतत् कथमित्याह- यस्य विभञ्जनादिति। योगविभागादित्यर्थः। मत्सीति। नदादित्वाद् ई:। आगस्तीयः इति। तथा स्वराणामादावाद् वृद्धिमत. शेषेऽर्थे ईय: स्यादिति वचनाद् ईयः। अण्प्रत्ययान्तश्च नदादौ पठ्यते तिष्यपुष्ययोर्नक्षत्रयोगादणिति। ननु यिन एवैकस्माद् बहुवचनं भवद् गणार्थं भविष्यति, आयिप्रत्ययस्तु गण एव निक्षिप्यतामित्याहगणादित्यादि।। ७२५।
[बि० टी०]
यस्या०। अपत्यपदेनापत्यप्रत्यय उच्यते, उपचारात्, तथापि व्यधिकरणम् अयमपत्यप्रत्ययस्य यकार: सस्वरलोपनीयो यकारोऽस्वरत्वाद् इति वक्ष्यामः। अपत्यप्रत्ययसम्बन्धिन इति। यिन्नायी द्वाविति। यद्यपि यिन्नायी द्वावपि भिन्नौ तथापि यिन्नायी इति योज्यम्, अन्यथा घटौ द्वावितिवद् दूषणं स्यात् । बहुवचनं तु गणार्थं प्रकृतेर्द्वित्वार्थ त्वाद् द्विवचनमेव युज्यते कथं बहुवचनम् , तस्माद् बहुवचनं