________________
२८६
कातन्त्रव्याकरणम्
३. अधुक्षि। अट् + दुह् + सण् + इ। 'दुह प्रपूरणे' (२ । ६१) धातु से अद्यतनीविभक्तिसंज्ञक उत्तमपुरुष-ए० व० 'इ' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ७१३ ।
७१४. दरिद्रातेरसार्वधातुके [३।६। ३४] [सूत्रार्थ]
सार्वधातुकभिन्न प्रत्यय के परे रहते 'दरिद्रा' धातु के अन्तिम आकार का लोप होता है।। ७१४।
[दु० वृ०]
तिपा धातुरेव निर्दिश्यते। दरिद्रातेरसार्वधातुकमात्रेऽन्तस्य लोपो भवति। दरिद्रयनि, अदरिद्रि, दरिद्रो वर्तते, दरिद्र्यते, दरिद्र्यात्। कथं दरिद्रयम् ? “आत्खनोरिच्च" (४। २। १२) इति यः, परत्वात्। वेति मण्डूकप्लुत्या युवोरनिटि सनि च न स्यात्दरिद्राणम्, दरिद्रायक:, दिदरिद्रासति।। ७१४ ।
[दु० टी०]
दरि०। लोपमात्रमत्र सम्बध्यतेऽकारस्यासम्भवान्। स च 'वर्णान्तस्य विधि:' (का० परि० ५) इत्यन्तस्य भवति। तिपेत्या । नान्यत् फलमस्ति, पाठसखार्थ इति भावः। असार्वधातुकमात्र इत्यनन्तर: स्वराधिकारो न प्रयोजयति। दिदरिद्रासतोति प्रयोजनं चेत, व्यवस्थितवाधिकारात् सिध्यनि। योऽप्याह-वेटामनेकस्वराणामपि निष्ठायामिटप्रतिषेधम्, तस्यापि निष्ठायां दरिद्राणमिति आकारलोपो नाभिधीयते, किमुक्तेन व्यवस्थितविभाषायां प्रविशतीति। विषयसप्तम्या अत्र न प्रयोजनम्। दरिद्रातीति दरिद्रः। व्यध्यतीणस्यातां चेति णे अचि वा विशेषाद् अकर्मकत्वादेवातोऽनुपसर्गान् को नास्ति। "आतश्चोपसर्गे, गुरोश्च निष्ठासेट:" (४। ५। ८४, ८१) इत्यङ्प्रत्यये. "आद्भ्यो य्वदरिद्रातेः" (४। ५ । १०४) इत्यत्र दरिद्रातिग्रहणं न कर्तव्यं स्यात्, प्रतिपत्तिगौरवं च। किन्न पश्यति दरिद्रयमिति प्रत्ययान्तरमिष्यते। दरिद्रयतीत्यपि परत्वात् पकारागमं बाधते। कथम् अदरिद्रायि। व्यवस्थितवाधिकारादेवाद्यतन्यां विभाषा। यथा अदरिद्रीत्. अदरिद्रासीत्। युवोरित्युत्सृष्टानुबन्धयाग्रहणम् ।। ७१४।
[वि० प०]
दरिद्राते:। तिपेत्यादि। नान्यत् किञ्चित् फलमस्ति धातुस्वरूपमेव तिपा सुखार्थ निर्दिष्टमित्यर्थः। असार्वधातृकमात्र इति पूर्वसूत्रात् स्वराधिकारो न स्मयते इति भावः। दिदरिद्रासतीति। "इवन्तर्द्ध०' (३। ७। ३३) इत्यादिना पक्षेऽनिट।। ७१८ ।
[समीक्षा]
'दरिद्रयति, अदरिद्रि, दरिद्रितः, दरिद्रिमः' इत्यादि शब्दरूपों के साधनार्थ दरिद्रा' धातुघटित आकारलोप की आवश्यकता होती है। कातन्त्रकार ने इसकी पूर्ति स्वतन्त्र