________________
२७१
तृतीये आख्याताध्याये षष्ठोऽनुषगलोपादिपाद: [दु० टी०]
धूञ्। धूजिति नैयादिकस्य सौवादिकस्य च ग्रहणमिति भर्तृहरिः। तदसङ्गतम्। स्वादौ हि ह्रस्व: पठ्यते, अन्यथा कथं धुनोतीति। 'धू विधूनने, तृप प्रीणने' (५।१०५; ३।३५) इति गणनिपातनादनर्थकमिदमित्ययुक्तम्। न पत्र प्रमाणमस्ति, इन्येव निपातनं न युटीति। धूप्रीओरिति सिद्धे तिग्निर्देश: पाठसुखार्थ एव। लीलोनलावन्तौ वा वक्तव्यौ। स्नेहद्रवे लियः कृतात्वस्य न स्याद् ईकारप्रश्लेषात्। घृतं विलीनयति, घृतं विलालयति, घृतं विलाययति, घृतं विलापयतीति। नलौ न वक्तव्यावित्याह - घृतमित्यादि। लीधातो वे क्तस्य "ल्वाद्योदनुबन्धाच्च" (४। ६।१०४) इति नत्वम्, नामकारितान्ताच्च हेताविन्नस्त्येव। 'लल ईप्सायाम्' (९। १०६) इति चुरादीनन्तादपि हेताविन्नास्तीति भावः। 'स्नेह द्रवीकरणे' लीलोर्धात्वो: कारिते वृत्तिर्वर्तनं तस्मान्नास्ति विभाषेति। तथाहि'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते' इति।
यद्येवम्, यथा 'अयो विलाययति' तथा 'अयो विलीनयति'। 'विलालयति' इत्यपि स्यात्। सत्यपि वक्तव्ये प्रयोगान्तरेणापि कथं न भवति विवक्षितप्रकृतेरन्यत्वात् । अथान- भिधानम् - तत् किमिह काकैर्भक्षितम्, तर्हि व्यलीललद् इत्यत्रादन्तत्वादिनि चणि ह्रस्वापधत्वं स्यात् । घृतं व्यलीलिनद् इत्यत्र ह्रस्वा न स्यात्, समानलोपत्वात् ? सत्यम्, दीर्घोपधत्वमेवाभ्यासेऽप्यदीर्घत्वम् प्रकृत्यन्तरविवक्षायां यदा लीधातो: क्तेर्नत्वं निपातनात्। विलीनिमकार्षीदिति । इनि वृद्धौ कृतायामैकारस्यासमानत्वादुपधाया ह्रस्वत्वं स्यात् - घृतं व्यलीलिनदिति। “वा विधूनने जोऽन्तः" इत्यपि न वक्तव्यम्, वारूपास्त्रयः सम्भवन्ति-वाति, वयति, वायते इति। तत्र वेज आयिरन्त इति। विधूननं कम्पनं तच्च वायतिनिवृत्त्यर्थम् आवापयति केशान् । शोषयतीत्यर्थः। पकारागम एव। तस्माद् वातेर्ग्रहणं न वक्तव्यम् इत्याह – पक्षणेत्यादि। एवं 'पुष्पाणि प्रवाजयति, उपावीवजत्' । 'वज व्रज गतौ' (१६३) इत्यनेनेव सिध्यतीति भावः। वाते रूपान्तरनिवृत्त्यर्थ चेदित्याह - वाधातोरित्यादि। कारितविषये न वृत्ति भिधानमित्यर्थः कथमित्यादि। "इन् कारितं धात्वर्थे" (३।२।९) इतीन्। ततो हेताविन् साधुश्चेदिति साधुः प्रयोगश्चेत्। यदि शिष्टप्रयोगो दृश्यते इति भावः। वक्तव्यं वेत्यर्थः।। ७०४।
[वि०प०]
धूप्री०। लीलोर्नलावन्तौ स्नेहद्रवीकरणे विभाषयेति न वक्तव्यौ। इह प्रकृत्यन्तरविवक्षयैव सिद्धत्वादित्याह – घृतमित्यादि। विपूर्वो ‘लीङ् श्लेषणे' (३। ८७), ततो भावे निष्ठेति कृतस्य क्तप्रत्ययस्य "ल्वाधोदनुबन्धाच्च" (४।६।१०४) इति नत्वम्। नामकारितान्तात् पुनर्हेत्वर्थविवक्षायामिन् ‘ललते रूपम्' इति। 'लल ईप्सायाम्' (९। १०६) चुरादाविनन्तादपि पुनर्हेताविन् विकल्पस्तर्हि कथमित्याह - 'स्नेह द्रवीकरणे' (द्र०, ३४०; ९।९)। लिय: कारिते वृत्तिर्वेति। लिय इत्युपलक्षणम् लातेरपीत्यर्थः। अतो वास्ति विभाषा सिद्धेति भावः। यथा 'घृतं विलाययति, घृतं