________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपाद:
२६७ ७०२. अर्तिह्रीब्लीरीक्नूयीक्ष्माय्यादन्तानामन्तः पो यलोपो
गुणश्च नामिनाम् [३। ६। २२] [सूत्रार्थ
इन् प्रत्यय के परे रहते 'ऋ-ही-ब्ली-री-क्नूयी-क्ष्मायी' एवं आकारान्त धातु के अन्त में पकारागम होता है तथा प्राप्ति के अनुसार यलोप-गुण आदेश प्रवृत्त होते हैं।। ७०२।
[दु० वृ०]
अादीनाम् आदन्तानां च इनि परे पकारोऽन्ता भवति यथासम्भवं यलोपो गुणश्च नामिनाम्। तिपा धातुरेव निर्दिश्यते। अर्पयति, हृपयति, ब्लेपयति। 'री रेषणे, रीङ् श्रवणे वा' (८।२५; ३।८६) रेपयति। "क्नूयी शब्दे' (१। ४११)-क्नोपयति, 'क्ष्मायी विधूनने' (१ । ४१२) – मापयति। आदन्तानां च – स्थापयति, क्रापयति, अध्यापयति।। ७०२।
[दु० टी०]
अतिः। 'ऋ प्रापणे, ऋ सृ गतौ' (१ ।२७५, २। ७४) इति द्वयोरपि ग्रहणमविकरणनिर्देशात्। तिबनिर्देशस्तु तदन्तविधिनिरासार्थः। ह्रीप्रभृतिभिः साहचर्यान्न तदन्तविधिश्चेत् प्रतिपत्तिगौरवनिरासार्थ स्यादित्याह – तिपेत्यादि। अन्य आह - चेक्रीयितलुगन्तस्य निवृत्तिरिति अरारयति, अरियारयति (अरी आरयति)। यत्वमत्र नेष्यते। 'री' इति सानुबन्धकस्यापि ग्रहणमित्याह-री इत्यादि। आदन्तानामित्यन्तग्रहणं लाक्षणिकग्रहणार्थम् अपरमागमार्थम् । 'प' इत्यकार उच्चारणार्थः। अथ किमर्थ यलोपग्रहणम् “य्वोर्व्यञ्जनेश्ये" (४।१। ३५) इति भविष्यति ? सत्यम्। अत्र प्रकरणप्रस्तावाद् व्यञ्जनादिप्रत्यय एव प्रतीयते। किञ्च न तच्छर्ववर्मकतमिति।
अथ किमर्थं पकारागमः क्रियते। अनिह्रीब्लीरीक्न्यीक्ष्माय्यादन्तेभ्य: 'प' आदिरित्युच्यताम् अर्थाद् इन आदिरवसीयते गुणश्च नामिनामिति न कृतः स्यात् नाम्यन्तलक्षणो गणा भविष्यति, यद्येवं वृद्धि: केन निवार्यत ? सत्यम् । येन नाप्राप्तिन्यायेन कारितस्य वृद्धि प्रति निमित्नाभावे पकारं प्रति आगमित्वमुच्यते, विरुद्धश्च निमित्ताभाव आगमित्वेन सप्तम्या हि निमित्तत्वं षष्ठ्या वा आगमित्वमिति तवृद्धर्बाधकत्वं भविष्यति कुतो वृद्धिप्रसङ्गः ? सत्यम्। आगमा यद्गुणीभूताम्ने तद्ग्रहणेन गृह्यन्ने इति। 'दाप्यते' इति कारितलाप पकारागमनिवृत्नि: स्यात् , न च 'प्रत्ययलोपे प्रत्ययलक्षणम्' इति पुन: पकारागम: स्वावयवत्वात्। अरीरिपदित्यत्र च रेपयतेरिनि चण्युपधाह्रस्वो यथा स्यात्।। ७०।
[वि. प०] अर्तिह्री० । तिपेति। 'ऋ प्रापणे च, ऋ सृ गतौ' (१ ।२७५; २।७४) इति