________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
२६१
( १ । २७९;५।२० ) धातु से परोक्षाविभक्तिसंज्ञक परस्मैपद प्र० पु० - ए०व० 'अट्' प्रत्यय, गुण, द्विर्वचनादि तथा "ऋकारे च" (३ । ३ । २०) से नकारागम । २. आनर्च्छतुः। ऋच्छ् + परोक्षा अतुस्। 'ऋच्छ गतौ' (१। २७९) धातु से परोक्षाविभक्तिसंज्ञक ‘अतुस्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
३. आनछुः । ऋच्छ् + परोक्षा उस्। ‘ऋच्छ गतौ' (१। २७९) धातु से परोक्षाविभक्तिसंज्ञक ‘उस्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ६९७ । ६९८. शीङः सार्वधातुके [ ३ । ६ । १८ ]
—
[ सूत्रार्थ]
अगुण सार्वधातुकसंज्ञक प्रत्यय के परे रहते शीङ्घातुघटित ईकार को गुणादेश होता है।। ६९८ ।
[दु० वृ०]
शीङः सार्वधातुके परेऽगुणे गुणो भवति एकवर्णत्वाद् वर्णान्ते। शेते, शयीत, शेरताम्, अशेरत।। ६९८ ।
[दु० टी० ]
शीङः। एकवर्णत्वाद् वर्णान्ते इति । 'इवर्णचवर्णयशास्तालव्याः' (कात० शि० सू० २) अत्रान्तरतम एकार एव, स च शकारस्य न भवति, यस्मादेकवर्णोऽन्ते निश्चित:, किञ्च व्यवधानादिति भावः। सानुबन्धनिर्देशाच्चेक्रीयितलुकि न भवति - 'शेशीत:, शेश्यति' यदि भाषायां दृश्यते । शीडोऽलुकीति सिद्धे सार्वधातुकग्रहणं स्पष्टार्थम् ।। ६९८ ।
[वि० प० ]
शीङः । एकवर्णत्वाद् वर्णान्ते इति । अन्यथा आन्तरतम्यादेकारस्तालव्यो गुणो भवन् शकारस्य स्थाने तालव्य : स्यादिति भावः । सर्वत्रादादित्वाद् विकरणस्य लुक् ।। ६९८ ।
[समीक्षा]
'शेते, शयाते, शेरताम्, अशेरत' इत्यादि प्रयोगों के सिद्ध्यर्थ 'शीङ्' धातु में गुणविधान दोनों ही आचार्यों ने किया है। पाणिनि का सूत्र है - " शीङः सार्वधातुके गुण: " (अ० ७ । ४ । २१) । अत: उभयत्र साम्य है।
[विशेष वचन ]
१. एकवर्णत्वाद् वर्णान्ते (दु० वृ० ) ।
२. सानुबन्धनिर्देशाच्चेक्रीवितलुकि न भवति शेशीत, शेश्यति' यदि भाषायां दृश्यते (दु० टी० ) ।
३. सार्वधातुकग्रहणं स्पष्टार्थम् (दु० टी० ) ।