________________
२६०
कातन्त्रव्याकरणम्
[दु० वृ०]
पुनर्ऋद्ग्रहणं गुण्यर्थम्। ऋच्छ ऋतः स्थाने गुणिन्यगुणे च परोक्षायां गुणो भवति। आनछु, आनछेतुः, आनच्छु:। कथमारतुः ? नित्यत्वान्निमित्ताभावाद् वा नागमविघात: स्यात् ।। ६९७।
[दु० टी०]
ऋ०। "ऋतश्च संयोगादेः" (३।६। १५) इत्यत: ऋद्ग्रहणमनुवर्तते एवेति हृदि कृत्वाह-पूनरित्यादि। गणिप्रत्यय एवार्थ: प्रयोजनमस्येति गुण्यर्थमिति। अन्यथा अगुणाधिकाराद् अगुण एव स्यात् । कथमित्यादि। अर्तेर्गुणार्थो दीर्घः पठितव्यः। ऋच्छ ऋत इति। ऋश्च ऋच्छश्च ऋच्छ ऋत इति ऋच्छ ऋत इति वा अच्छश्च ऋतो गुण इत्यर्थः। अन्यथा "ऋकारे च" (३। ३। २०) इति नकारागमः प्रसज्येत, तन्न वक्तव्यमित्याह-नित्यत्वादिति 'नित्यानित्ययोर्नित्यविधिबलवान्' (का० परि० ४९) इति रत्वमेव न त्वनित्यो नागमः। निमित्ताभावाद् वेति अभ्युपगम्य पक्षान्तरमुच्यते 'निमित्ताभावे नैमित्तिकस्याप्यभाव:' (का परि० २७) इति नकारो निवर्तते। यदि पुनरिह पूर्वयोग: प्रश्लिष्यते 'ऋ गतौ' (२ । ७४) इत्यस्यैव ग्रहणं प्रतिपद्येत। तदन्तविशेषणमपि गरीय: स्यात् ।। ६९७।
[वि० प०]
ऋच्छ०। "ऋतश्च संयोगादेः" (३। ६। १५) इत्यतः ऋद्ग्रहणं वर्तत एवेत्याह-पुनरित्यादि। गुणी प्रत्यय एवार्थः प्रयोजनमस्येति विग्रहः। अन्यथा गुणाधिकारादिहाप्यगुण एव स्यात्। गुणे कृते “अस्यादेः सर्वत्र" (३। ३। १८) इति दीर्घ:, "तस्मान्नागमः परादिरन्तश्चेत संयोगः" (३। ३। १९) इति नकारागमः। कथमित्यादि। अर्तेरभ्यासस्य ऋवर्णस्याकारे कृते च पूर्ववद् दीर्घत्वे कृते "ऋकारे च" (३। ३। २०) इति नकारागमः प्राप्नोतीति। तत ऋकारस्याभावार्थम् अर्तेरपि गुणो वाच्यः, यथा “ऋच्छ ऋत:" (३।६।१७) इति। ऋश्च ऋच्छश्च ऋच्छौ तत: 'ऋतः' इति अर्तेच्छश्च ऋतो गुण इत्यर्थः। तन्न वक्तव्यमित्याह-नित्यत्वादिति। नकारागमे कृतेऽपि नित्यः “रमृवर्णः" (१। २। १०) इति रेफः, नागमः पुनरनित्य एव, रेफे ऋकारस्याभावात्। अतो 'नित्यानित्ययोर्नित्यविधिर्बलवान्' (का० परि० ४९) इति रत्वमेव। अथ 'आगमादेशयोरागमो विधिर्बलवान' (का० परि० ४०) इति मन्यते चेत्, तुष्यत दुर्जनस्तथापि 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २७) भविष्यतीत्याह-निमित्ताभावाद् वेति।। ६९७।
[समीक्षा] समीक्षा द्र०-सूत्रस० ६९६ [रूपसिद्धि] १. आनर्छ। ऋच्छ् + परोक्षा–अट्। 'ऋच्छ गतौ, ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु'