________________
कातन्त्रव्याकरणम्
धातु
२. सस्मरुः। स्मृ + परोक्षा-उस् । 'स्मृ चिन्तायाम्, स्मृ आध्याने ' (१।२७२, ५२१ ) से परोक्षाविभक्तिसंज्ञक 'उस' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ६९५ । ६९६. ऋदन्तानां च [३ । ६ । १६ ]
२५८
[ सूत्रार्थ]
अगुण परोक्षासंज्ञक प्रत्यय के परे रहते दीर्घ ऋकारान्त धातु को गुण आदेश होता है।। ६९५।
[दु० वृ०]
ऋदन्तानां च धातूनां परोक्षायामगुणे गुणो भवति । तेरतुः, तेरुः । विशशरतु:, विशशरुः। विददरतुः, विददरुः । निपपरतुः, निपपरुः । कथं विशश्रतुः, विशश्रुः । विदद्रतुः, विददुः । निपप्रतुः, निपप्रुः ? शृप्रामर्थे श्रा - द्रा - प्राश्च वर्तन्ते ।। ६९६ ।
[दु० टी० ]
ऋद० । ऋत् अन्ते येषामित्यन्तग्रहणं स्पष्टार्थमेव, तपरकरणमसन्देहार्थम्। अन्यथा रेफान्तानामित्यपि प्रतिपद्यते । कथमित्यादि । 'श्रृ हिंसायाम्, दृ विदारणे, पृ पालने' (८ | १५, १९, १६) एषामर्थे श्रा पाके, द्रा कुत्सायाम्, प्रा पूरणे (२।२९, २०, २५) वर्तन्ते। वर्तनं पुनरिह यथासङ्ख्येन प्रतिपत्तव्यम् । अनेकार्था हि धातवो भवन्ति, पुन: परोक्षायामेवाभिधीयन्ते। ननु च ' शृदृप्रां ह्रस्वो वा' (अ० ७ । ४ । १२) इति न वक्तव्यम्, दीर्घाश्रयस्य गुणस्य बाधनार्थं क्वन्सौ धात्वन्तराणामिटि चेत्याकारलोपे रेफश्रवणं स्यात् । शशृवान्, शिशीर्वान्। ददृवान्, दिदीर्वान् । पपृवान्, पुपूर्वान् । तन्न वक्तव्यम्। छान्दसा ह्येते प्रयोगा इति । । ६९६ । [वि० प०]
ऋद०। 'तेरतुः, तेरु:' इति गुणे कृते " तृफलभज० " ( ३ । ४। ५३) इत्यादिना एत्वम् अभ्यासलोपश्च। ‘श्रृ सृ हिंसायाम्, दृ विदारणे, पॄ पालनपूरणयो:' (८ । १५, १९, १६) इति दीर्घान्तत्वाद् एषां गुणस्य विषयो न तु " रम् ऋवर्ण: ” (१ । २ । १०) इत्यस्येति मत्वा चोदयन्नाह - कथं विशश्रतुरित्यादि । 'विशशरतु:' इत्यादय एव प्राप्नुवन्तीति परिहारमाह ‘शृ–दृ–प्रामर्थे' इत्यादि । 'श्रा पाके, द्रा कुत्सायां गतौ, प्रा पूरणे' (२ । २९, २०, २५) इत्येते यथाक्रमम् एषामर्थेऽपि वर्तन्ते, धातूनामनेकार्थत्वाद् इत्यर्थः । तेनालोपोऽसार्वधातुक इत्याकारलोपे सिद्धम् । अतो दीर्घाश्रयस्य गुणस्य बाधनार्थं “श्रृद्वृप्रां ह्रस्वो वा” (अ० ७।४।१२ ) इति न वक्तव्यमिति । अथानूच्यमानेऽस्मिन् क्वन्सौ दोष: स्यात्। अत्र किल धात्वन्तराणामेषां “अर्त्तीण्घसैकस्वराताम् " (४। ६ । ७६) इत्यादिना इटि कृते “इटि च” (३ । ४ । २८) इत्याकारलोपे रेफस्य श्रवणं स्यात् । ऋकारस्य च पक्षे ह्रस्वश्रवणम् इष्यते । यथा शशृवान् शिशीर्वान् । ददृवान्, दिदीर्वान् । पपृवान्, पुपूर्वान् इति। तदयुक्तम्, छान्दसा ह्येते प्रयोगा इति ।। ६९६ ।
"