________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
शशविषाणः कस्मान्न सम्बध्यते । अथ सदर्थपरिहारेणान्या काचित् साधनसम्बन्धयोग्यावस्था आकलय्यते। तस्यामवस्थायां कथं विशेषणैरभिसंबन्धो न भवेत् । यच्चोक्तं बहिरङ्गत्वादिति, तदसत्। सामान्ये हि विशेषा एवान्तरङ्गास्तत्प्रविष्टत्वान्न बाह्यानि साधनानि । अपि च कथम् अप्रतिलब्धात्मभावस्य साधनसम्बन्धात् प्राग् धातुनाभिधानं कल्प्यते । धात्वर्थस्य चोपचारसत्तयेति चेत् तर्हि तामेवोपचारसत्तां परिगृह्य विशेषसम्बन्धोऽपि (लिङ्गादपि ) कस्मान्नेष्यते तस्माद् विशिष्ट एव धात्वर्थ: साधनैः सम्बध्यते इति सुडेवान्तरङ्गस्तस्मिन् दर्शने ‘औपदेशिकप्रायोगिकयोरौपदेशिकस्यैव ग्रहणम्' (का० परि० ४२ ) इत्यनित्योऽयं न्यायः। तेन ‘ सञ्चस्करु : ' इति गुणः सिद्धो भवति।। ६९५।
[वि० प० ]
ऋत:। कथमित्यादि। यद्यपि "सुड् भूषणे सम्पर्युपात्” (३।७।३८) इत्युभयपदाश्रितः सुडागमो बहिरङ्गः। एकपदाश्रितत्वाद् गुणोऽन्तरङ्गस्तथापि तत्र गुणे कर्तव्ये सुडसिद्धो न भवति, अनित्यत्वादस्य न्यायस्येत्यर्थः ।। ६९५
[समीक्षा]
'सस्मरतु:, सस्मरुः, सस्वरतुः, सस्वरुः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में गुणादेश की व्यवस्था की गई है। पाणिनि का सूत्र है संयोगादेर्गुण:' (अ० ७। ४ । १०) । अतः उभयत्र समानता है।
“ऋतश्च
[विशेष वचन ]
—
१. ‘असिद्धं बहिरङ्गमन्तरङ्गे' इत्यनित्येयम् (दु० वृ०)। २. साधनं हि क्रियां निर्वर्तयति, तामुपसर्गो विशिनष्टि (दु० टी० ) । ३. पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण (दु० टी० ) |
४. यदिह धातुविशेषणमादिग्रहणम्, तत् प्रायोगिकपरिग्रहार्थम् (दु० टी० ) ।
५. अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्ति (दु० टी० ) । ६. पूर्व धातुरुपसर्गेण युज्यते पश्चात् साधनेन (दु० टी०) ।
७. सामान्ये हि विशेषा एवान्तरङ्गाः (दु० टी० ) ।
८. विशिष्ट एव धात्वर्थ: साधनैः सम्बध्यते (दु० टी०) । [रूपसिद्धि]
२५७
+
स्मृ
१. सस्मरतुः । परोक्षा- अतुस् । 'स्मृ चिन्तायाम्, स्मृ आध्याने' (१।२७२, ५२१) धातु से परोक्षाविभक्तिसंज्ञक परस्मैपद - प्र० पु० - द्विव० 'अतुस्' प्रत्यय, “चण्परोक्षाचेक्रीयितसनन्तेषु " ( ३ ३ । ७) से धातु को द्विर्वचन, “पूर्वोऽभ्यासः” ( ३।३।४ ) से पूर्ववर्ती 'स्मृ' की अससंज्ञा, ‘“अभ्यासस्यादिर्व्यञ्जनमवशेष्यम्” (३।३।९) से आदि व्यञ्जन का शेष प्रकृत सूत्र से धातुघटित ऋकार को गुण - अर् तथा "रेफसोर्विसर्जनीयः " ( २।३।६३) से सकार को विसर्ग आदेश ।
)