________________
कातन्त्रव्याकरणम्
नामिनामित्यनेन सहोपधा न सम्बध्यते । 'आ' इति सिद्धे दीर्घग्रहणं संज्ञापूर्वकत्वादनित्यार्थमेव । अथ वाग्रहणं व्यवस्थितविभाषात्वेन वर्तिष्यते ? तदा स्पष्टार्थम् ।। ६८५ । [वि० प० ]
२४२
अस्योपधायाः। इह भिन्नविभक्तिनिर्देशाद् वाक्यार्थद्वयम् । अतो नामिनामित्यनेनोपधा न सम्बध्यतं इत्याह नामिनां च वृद्धिरिति नाम्यन्तानामित्यर्थः । त्वचयतीति । त्वचं गृह्णातीति विगृह्य इन्, कथमित्यादि । पटुशब्दस्य लिङ्गत्वात् "इनि लिङ्गस्य" (३।२।१२) इत्यादिना उकारस्य समानस्य लोपे सन्वद्भावो न स्यादिति पूर्वपक्षार्थः । सिद्धान्तवादी तु मन्यते – लिङ्गस्यापि नामिनां वृद्धिरिति । अत औकारस्यासमानलोपे सन्वद्भावः स्यादेव। अथ महाधात्वधिकारात् प्रकरणत्वाच्च धातोरेव स्यात्, न तु लिङ्गस्येति । लिङ्गार्थं प्रति युक्तिमाह – धातोरित्यादि । गुणे सत्यवादेशो ऽस्त्येवेति उपधाभूतस्याकारस्य दीर्घो भविष्यतीति भावः । न च वक्तव्यम् अकारस्य लाक्षणिकत्वाद् दीर्घो न स्यादिति । समुदायो लाक्षणिको न त्ववयवः । समुदायावयवयोरन्यत्वात्, तस्माद् यत्र गुणो नास्ति तदर्थं नामिग्रहणं भवत् लिङ्गार्थमेव परिशिष्यते । अत्रावयवावयविनोरभेददर्शने तु समुदायस्य लाक्षणिकत्वादवयवोऽपि लाक्षणिक इति परपक्षमाश्रित्याहबहुवचनं वेति । बहुवचनस्य व्याप्यवधारणत्वादप्रस्तुतस्यापि लिङ्गस्य भवति । 'येन विधिस्तदन्तस्य' (का० परि० ३ ) इति वचनाच्च नाम्यन्नस्यैव । कथमित्यादि । 'कलिमग्रहीत्, हलिमग्रहीत्' इति इनि कृतेनयोरपि वृद्धावसमानलोपत्वात् सन्वद्भावः प्राप्नोति । ततो वृद्धेरपवादो हलिकल्यारद् वक्तव्यः इति नेत्याह मंज्ञेत्यादि । अयं परिहारः सुगमः। तथेत्यनित्यवशादित्यर्थः।। ६८८।
-
[बि० टी० ]
अस्य । ननु अदन्तस्य धातोरुपधाया दीर्घो भवतीत्यर्थः कथन्न स्यात्। असम्भवादिति चेत्, न। ‘कथयति' इत्यत्र अस्य च लोपे उपधैव विद्यते । न च वाच्यम् अकारस्य स्थानिवद्भावाद् उपधाभाव: "न पदान्त० " (का) परि० १० ) इत्यादिना निषेधात् ? सत्यम्। अदन्तपाठसामर्थ्यान्न दीर्घः । ननु अकारकरणं सन्वद्भावनिरासार्थम् । तथा च तत्रोक्तम् असमानलोप इति किम् – अचकथद् इति चेत् नैवम् । दीर्घे कृतं प्राप्तेरभावात् लघुनीत्यस्य व्यावृत्तिविषयत्वात् । ननु " इन्यसमान ० (३ । ७ । ४४) इत्यादिना हस्वे प्राप्ते च प्रतिषेधः समानलोपत्वात् । न चैतदेव प्रयोजनम्, अन्यथा अत्रापि स्यात् । यद्येतदेव प्रयोजनम्, तदा ऋतमनुबध्नीयात् 'कथ वाक्यप्रबन्धे' (९ । १३४) इति । तस्मादकारकरणसामर्थ्यादेव न दीर्घः ।। ६८५ ।
""
[समीक्षा]
'पाचयति, पपाच, निनाय कारयति चकार' आदि शब्दरूपों के सिद्ध्यर्थं उपधाघटित अकार को आकार तथा धान्वन्तघटित नामिसंजक वर्णों के स्थान में वृद्धि - विधान दोनों ही व्याकरणों में किया गया है। पाणिनि के दो "अचां णिति,
,
1
हैं
सूत्र
-