________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपाद:
२४१
[दु० वृ०]
धातोरुपधाया अस्य दी? भवति, नामिनां च वृद्धिर्भवति ‘इन्–इच्-अट्' एषु परतः। पाचयति, अपाचि, पपाच, नाययति, अनायि, निनाय, लावयति, अलावि, ललाव, कारयति, अकारि, चकार। धातारिति किम् ? त्वचयति। कथं पट्माख्यातवान् अपीपटत ? वृद्धो सन्ध्यक्षरलोपः। धातो मिनो गुणे सत्युपधाया दीर्घ: सिद्धः, नामिग्रहणं लिङ्गार्थमेव, बह्वचनं वा। कथम् अचकलत्, अजहलत् ? संज्ञापूर्वकत्वाद् वृद्धिरनित्येति समानलोपत्वात् सन्वद्भावो न स्यात्। तथा अट्युत्तमे वा-अहं पपच, अहं पपाच। अहं निनय, अहं निनाय। अहं लुलव, अहं लुलाव। अहं चकर, अहं चकार ।। ६८५।
[दु० टी०]
अस्य० । अदन्ताः ‘कथ वाक्यप्रबन्धे' (९ । १७४) इत्यादयः, नेनोपधाभूतत्वाभावाद् दीर्घो न भवति – कथयति। 'गण संख्याने' (९।१७६), गणयति। अस्य च लोपे कृते दीर्घविधिं प्रति न स्थानिवद् इत्यपि नोपतिष्ठते अकारोपदेशसामर्थ्यात्। कथमित्यादि। इनि लिङ्गस्यान्त्यस्वरलोपे समानलोपत्वात् सन्वद्भावो न प्राप्नोतीति परिहारमाह - धातोरित्यादि। गुणे सति अयादीनां भवितव्यम्, ततश्चोपधाभूतोऽकारोऽस्तीति भावः । यत्र गणो नास्ति तदर्थं नामिग्रहणमित्यर्थः।।
जातिपक्षमवलम्ब्याह – समुदायस्य लाक्षणिकत्वेनावयवाऽपि लाक्षणिक इति मतमाशङ्क्याह – बहुवचनं वेति। नामिना धातुर्विशिष्यते विशेषणेन च तदन्तविधिरिति नाम्यन्तस्य धाताभविष्यति यन्नामिनामिति बहुवचनम्, तद्व्याप्त्यर्थम्। तनाप्रस्तुतस्यापि लिङ्गस्य नामिनां तदन्तविधिर्भविष्यति। कथमित्यादि। हलिकल्योरप्यसमानलोपत्वात् सन्वद्भाव: प्राप्नोति। 'अजीहलत्, अचीकलत्' इत्यादि। परिहारमाह – संज्ञापूर्वकत्वादिति व्यवस्थितवाधिकाराद् वा। हलकलयोस्तत्समानार्थयार्वा सिद्धम्। हलिकलिप्रकृत्यन्तरन्न 'हलिमग्रहीत्, कलिमग्रहीत्' इति वाक्यमेव कारितस्यानभिधानात्। व्यक्तिपक्षमवलम्ब्याह - यस्य तु अवयवार्थकत्वात् समुदायस्य लाक्षणिकत्वेऽवयवस्यापि लाक्षणिकत्वमिति दर्शनम्। क्वचिज्जातिनिर्देशः क्वचिद् व्यक्तिनिर्देश इति बहुवचनं च युज्यते। तन्मते च धाताव नामिनां वृद्धिरिति अचकलत्, अजहलत्, अपपटत्, अललघद् इत्येव भवति, समानलोपत्वादेतच्च वह प्रतिक्षिप्तम् ‘हलिकल्याग्ट वक्तव्यम्' इति। उपधाग्रहणं किमर्थम् 'कथयति, गणयति' इत्यम्याकारस्य दीर्घत्वं पकारागम: प्रसज्यतति। तथा च ‘पापचिपते' इत्यस्य च लोप इत्यत्र परसप्तमी चेति भिन्नविभक्तिनिर्देशादिह वाक्यार्थद्वयम्। तेन
१. नन कथमन्यथा अचकदित्यादौ यन्वदभावो न ग्यात् समानलोपाभावात् ? सत्यम्। तदा हि कथ इत्यादि ऋटनुबन्धमंत्र विटभ्यादिति भावः। तथा च पति अनेन दार्चे पश्चान्चणि 'न शाम्वृः' (३ ।
। ८) इत्यादिना हम्वनिषध च धात्वक्षरम्य गत्वात् मन्वभावम्य प्राप्निग्व नास्तीति। सिद्धान्तान्नग्मप्यस्ति। तथाहि - अयं तु पटिताना 'भामाटांना दार्थोपटगादेव न स्थानिवन्निपधः अन्यथा तपामनेनेव टोर्च मिद्ध इति केचिदिति रमानाथटिप्पणी।