________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
२३७ अन्यथा कथमिह परोक्षायामुपश्लेषो "नाम्यादेपेरुमतोऽनृच्छ:' (३।२।१९) इत्यामाऽनुप्रयोगे च व्यवधानादिति भावः । न च वक्तव्यम् 'अनेकवर्णव्यवधानेऽप्यनुषङ्गलोपो भविष्यतीति अत्रामो विषयत्वाद् आम एव बाधानन्तर्यस्येति 'सविकल्पान्यपि ज्ञापकानि भवन्ति' इत्याम्प्रत्ययोऽपि। समिन्धाञ्चक्रे। आम्प्रत्ययविधौ व्यवस्थितवाधिकारा वा, पदकारसम्मतमेतत्। भाष्यकार: पुनराह – इन्धेलिटि किवचनानर्थक्यं छान्दसत्वादिति।
सिद्धे सत्यारम्भो विधिनियमार्थः स च प्रत्ययनियम एव। अगुणे परोक्षायाम् इन्धादीनामेवेति प्रकृतिनियमे हि परोक्षायामेवेति पूर्व न विदध्यात्। तेन 'इध्यते, श्रथ्यते' इत्यनुषङ्गलोप: स्यादव। पराक्षायां विभक्तावगुणे इति भिन्नाधिकरणतेत्याह – इन्ध्यादीनामेवति। स्वन्जेरपीत्येके। परिषस्वजे, परिषस्वजाते। स्वन्जेरात्मनेपदित्वादगुणे एव सम्भवति, तदप्रमाणम्। भाष्यकारस्तु श्रन्थिग्रन्थिदन्भीनामपि न मन्यते, पदकारस्त्विच्छति। एके दर्शनद्वयमाश्रित्य “जिघ्रतेर्वा" (३।५।४८) इत्यतो वाग्रहणमनुवर्तयन्ति। ‘शश्रन्थतुः, जग्रन्थतु:, ददम्भतुः' इत्यपि भवति। "थलि च" इति सूत्रमपरे पठन्ति। 'श्रेथिथ, ग्रेथिथ, देभिथ, शश्रन्थिथ, जग्रन्थिथ, ददम्भिथ' इति लुप्तानुषङ्गाणामेत्वमभ्यासलोपश्चेति मतं तत्र वर्णितम्, अन्येषामनुषङ्गिणामनुषङ्गलोपो न स्यात्। परोक्षायामिति। वाग्रहणादेव प्रतिपत्तव्यम्, नैतत् सूत्रकारमतम् बहुप्रतिविधेयत्वादिति।। ६८३।
[वि० प०]
परोक्षायाम्० । 'सम्' पूर्व: “नि इन्धी दीप्तौ' (६।२२), ए। यदि पुनरिह “नाम्यादेगुरुमतोऽनृच्छ:" (३।२।१९) इत्याम्प्रत्यय: स्यात् तदा तेन तदनुविधायिना चानुप्रयोगेण व्यवधानात् परोक्षायामनुषङ्गलोपो नास्तीति इन्धिग्रहणमनर्थकमेव स्यादित्याह – वचनादाम् नास्तीति। इह 'सविकल्पकान्यपि ज्ञापकानि भवन्तीति। तेन 'समिन्धाञ्चक्रे' इत्यपि भवति। श्रेथतुरित्यादौ "तृफलभजत्रप०" (३।४।५३) इत्यादिना एत्वम् अभ्यासलोपश्चानिदनुबन्धत्वादगुणे पूर्वेणैव सिद्ध नियमार्थमित्याह – इन्ध्यादीनामेवेत्यादि। परोक्षायामेवेन्ध्यादीनामिति, प्रकृतिनियमस्तु न भवति, यत: कार्टी निमित्तं कार्यमित्येष निर्देशक्रम इति न्यायात् प्रत्ययस्य पश्चान्निर्देश प्राप्ते यदादौ प्रत्ययनिर्देश: स प्रत्ययनियमावधारणार्थस्तेन प्रकृतेरनियमत्वात् 'इध्यते, श्रथ्यते' इत्यनुषङ्गलोप: स्यादेव।। ६८३।
[समीक्षा]
‘समीधे, समीध्यते, श्रेथतुः, देभतुः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में नकारलोप की व्यवस्था की गई है। पाणिनि का सूत्र है – अनिदितां हल उपधाया: क्ङिति" (अ० ६। ४। २४)। 'लिट-परोक्षा, क्ङित्-अगुण' शब्दों का प्रयोग अपने-अपने व्याकरणों की रचनापद्धति के अनुसार हुआ है। व्याख्याकारों ने प्रसङ्गतः पदकार-भाष्यकार आदि के भी मतों का उल्लेख किया है। किसी टीकाकार के मत को दुर्गसिंह आदि ने अप्रामाणिक माना है।
[विशेष वचन] १. इन्ध्यादीनामेवेति नियमात्-सस्रंसे, बभञ्जतुः (दु० वृ०)।