________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
२३५ 'नन्द्यते' इत्यत्रापि स्यात्। विकरणादित्युच्यमानेऽपि नशब्दादेव भविष्यति। न ह्यन्यतो विकरणाद् धातोरनुषङ्गः सम्भवतीति नशब्दग्रहणम् मन्दधियां सुखप्रतिपत्त्यर्थम् ।। ६८२ ।
[वि० प०]
नशब्द० । अनिदनुबन्धानामित्यादि। यदि पुनः श्रुतत्वादिह नशब्दादित्यनेनैव चकार: संबध्यते, तदा नशब्दादनशब्दाच्चेति वाक्यार्थ: स्यात्। एवं च सति तदा प्रागनुषगलोपविधानमनर्थकमेव स्यात्, अनेनैव सिद्धत्वादिति भावः। परे परस्मिन् सूत्रेऽगुणग्रहणं यस्माद् विद्यते तस्मादत्र सामान्यं न विशेषः। अन्यथाऽगणाधिकारेणैव सिद्धत्वात् कि पनस्तत्रागणग्रहणेनेति भावः। एवं च स्थिते यादृश: सूत्रार्थ: सम्पद्यते तथा दर्शयन्नाहइदनुबन्धानामित्यादि। भञ्जो आमर्दने, हिसि हिंसायाम्' (६।१३, १५), रुधादित्वान्नशब्दः, अगणे रुधादेर्विकरणान्तस्येत्यकारलोपः।। ६८२।
[बि० टी०]
नशब्द० । ननु दन्शिसन्जीत्यनन्तरं सूत्रमिदं पठ्यतां परोक्षायामित्यादिसूत्रेऽगुणग्रहणमपनेयं स्यात्, चकारोऽपि न कृतः स्यात्, तत्र सामान्येन सिद्धत्वात्। न च वक्तव्यं 'विशेषातिदिष्टः प्रकृतं न बाधते' (काल परि० ३९) इति न्यायादगुणानुवृत्ति: स्यात् । “परोक्षायामिन्धि०'' (३।६। ३) इत्यनन्तराकरणात्? सत्यम् । प्रतिपत्तिरियं गरीयसीति। एवं सति प्रागनुषङ्गलोपविधानमनर्थकम्, अनेनैव सिद्धत्वादिति पञ्जी। ननु कथमनर्थक यतोऽगुणे तस्य वर्तनाद् गुणेऽनुषगलोपाभावः। तथाह घत्वे सति इत्यादि। यथा 'स्रंसते' इत्यादि। अकृते तत्सूत्रे कथमेतत्प्रयोग: स्यात्, किन्तु इदं वक्तुं युज्यते "नशब्दाच्च" (३।६। २) इत्युक्त व्यावृत्तिस्थानं न विद्यते, यता नशब्दादगण पूर्वेण लापः प्राप्ती गणे तस्य व्यावृत्त्या लोपो न भविष्यनि। किमुक्तं प्राविधानमनर्थकम्, अभिप्रायापरिज्ञानात् । यदि नशब्दादनशब्दाद् भविष्यति, तदैकविधानमेव कुर्वीत, पूर्व विधानं व्यर्थमित्यर्थः।
अनिदनुबन्धानामागुण नशब्दाद् विकरणादनुपङ्गलाप इति सूत्रं कर्तव्यमित्यर्थः । न च वक्तव्यम् – नशब्दादित्यत्रागुणे संबन्धो भविष्यति नशब्दविकरणसामर्थ्यात्। अन्यथा सामान्यनागुणद्वारेण नशब्दादपि लोपो भविष्यति। यद् वा परत्रागुणग्रहणादिह गुणिन्यपि तत्रानिदनुबन्धसान्निध्येऽगुण इति पठितत्वाटगुण भविष्यति। नशब्दाच्च सामान्येनेदमनर्थकमिति वाच्यम्, यथा तत्सूत्रं तथैव तेन सहेकयोगत्वात्। (नन विकरणादित्यच्यमाने नशब्दाद् विकरणादेव भविष्यति, नेवम्। न ह्यन्यतो विकरणाद् धातोरनपङ्गः सम्भवति चेत् तदा नशब्दग्रहणं सुखार्थम्। ननु गुणेऽकारलाप तम्य विकरणं नास्तीत्येतदर्थ विकरणग्रहणं कथं सुखार्थमुच्यते ? सत्यम्। यदा विकरणावयवाऽपि विकरण उच्यते तदा सुखार्थम्। न च एकदशविकृतमनन्यवद् इति नास्वशब्दाक्तत्वाद् इति निपधात् कथं स्यादिति। अत एव यणि दृष्टत्वाद् गुणोऽनपगालापश्चति तत्रैव लिखितम्)।। ६८२ ।
[समीक्षा 'भनक्ति, हिनस्नि' आदि शब्दरूपों के सिद्धयर्थ झधादिविकरण के बाद वाले