________________
२३२
कातन्त्रव्याकरणम्
इत्युच्यते। विकपित इति। शरीरविकार इह न स्थौल्यादिरुच्यते, न ह्यसौ कम्पेर्विषयभूतः संभवति, लङ्गतेश्च गतार्थत्वात् । कम्पतेश्चाकर्मकत्वात् कर्तरीयं निष्ठा, अन्यत्र विलङ्गितो विकम्पित इत्यादि। तृन्फादीनामित्यादि । तुदादिषु तृन्फादयो मुचादिभ्योऽन्यत्र पठ्यन्ते । तत्र य ऋदुपधस्तस्य 'तर्फिता, तृफित:, तृफति' इति प्रयोग इष्यते । सानुषङ्गस्यापि 'तृम्फिता, तृम्फित: तृम्फति' इति प्रयोग इष्यते । तुदादित्वादगुणेऽनि विकरणेऽनुषङ्गलोपः प्राप्नोति । नकारोपदेशोऽपि गुणिनि चरितार्थः, तस्मात् तृन्फादीनामनि प्रतिषेधो वक्तव्यः ।
यदि पुनरिदनुबन्धा इमे पठ्यन्ते निष्ठादिषु नकारश्रवणं स्यात्, तथा द्विनकारपाठेऽप्येकस्यापि श्रवणं स्यात् । प्रयोगानुसरणाश्रयणमपि न युक्तमिति । अन्य आह मुचादिष्वनुषङ्गिणां पाठः एषामिति न वक्तव्यम् । युक्तिः पुनरत्र “जिघ्रतेर्वा” (३.५ । ४८) इत्यतो वाग्रहणं व्यवस्थितविभाषार्थत्वेनानुवर्तते, तेन तृन्फादीनामनि विकरणेऽनुषङ्गलोपो
—
भवति। 'तृन्फ–तुन्फ–तुन्प – ऋन्फ–दृन्फ–गुन्फ– उन्भ - शुन्भ' इत्यष्टौ भवन्ति । भ्वादौ 'तुन्फ तुन्प:'- पाठो न युक्त एव तुदादिपाठादेव रूपद्वयस्य सिद्धत्वात् । 'तुन्फति, तुफति, तुम्पति तुपति' इति । शुन्भ भाषणे च हिंसायां चेत्यर्थः । भ्वादावर्थभेदात् पठन्ति। व्यवस्थितविभाषाबलादेवान्चे: पूजायां न भवति – अञ्चिता गुरवः पूजिता इत्यर्थः। अन्वेः पूजायामिटं वक्ष्यति । अन्यत्र उदक्तम् उदकं कूपादिति, उद्धृतमित्यर्थः ।। ६८१ ।
[वि० प० ]
अनिदनु० । नष्ट इति । नशेः " मस्जिनशोधुटि" (३।५।३१) इति कृतनकारस्य लोपः। न चेह ‘लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' (का० परि० ७५) इति परिभाषावतारोऽस्ति अनिदनुबन्धानामिति प्रतिषेधलिङ्गात् । अत एवेत्यादि । अन्यथा प्रतिषेध व्यर्थः स्यादिति भावः। न चायं नकारो धातूनामुपदेशावस्थायामनपेक्षितनिमित्त एव ज्ञाप्यते, न तु प्रत्यासत्त्याऽगुण एव प्रत्यय इति 'हिसि हिंसायाम् ' ( ६ । १५ ) इति निर्देशात्, अन्यथा गुरुमत्त्वाभावात् पूर्वं कथं "गुरोश्च निष्ठासेट : " ( ४ । ५ । ८१ ) इति ‘अ’ प्रत्ययो भवतीति। ननु च इदनुबन्धानाम् अनुषङ्गस्याभावाद् अनर्थकः प्रतिषेधो मा भूदित्यनेनानुषङ्गमात्रं ज्ञाप्यते न तु नुरागमः । ततश्च बृंहणम् इत्यादौ णत्वं स्यात् । तत्र हि नुरिति वर्तते, तेन तत्सम्भवस्यानुस्वारस्योपलक्षणत्वाद् इदं सिध्यति नान्यथा, तदयुक्तम् । अनुस्वारस्य स्वरत्वं प्रतिपादितमेव, अतः स्वरान्तरत्वादेव णत्वं स्यात् । अत एव णत्वविधौ नोरधिकारो न कृत एव । तथा च तत्रोक्तम् – स्वरत्वादनुस्वारविसृष्टाभ्यामपीति, एतदेवाह–तथा चेत्यादि । तस्मात् किं नोर्विधानेनेति भावः ।
लङ्गीत्यादि। उपताप: पीडा, शरीरविकारश्च देहविकृति:, न तु स्थौल्यादिरुच्यते, कम्पेरविषयत्वात्। विगलित इत्यादि । प्राप्तपीडः उच्यते । विकपित इति। कम्पेनाहितदेहविकृतिरुच्यते । अन्यत्र विलङ्गितो विकम्पित इत्येव भवति । तृन्फादीनामित्यादि । एषां तुदादित्वादनि विकरणेऽगुणेऽनुषङ्गलोपः प्राप्तः प्रतिषिध्यते, तत् पुनः " जिघ्रतेर्वा" (३।५।४८) इत्यत्र वाशब्दस्य व्यवस्थितविभाषार्थत्वान्मन्तव्यमिति ।। ६८१ ।