________________
तृतीये आख्याताध्याये पञ्चमो गुणपादः
अद्यतनीसंज्ञक 'दि' प्रत्यय, "अड् धात्वादिर्ह्यस्तन्यद्यतनीक्रियातिपत्तिषु" (३।८।१६) से धातुपूर्व अडागम, “श्रिदुनुकमिकारितान्तेभ्यश्चण् कर्तरि " ( ३।२।२६ ) से 'चण्' प्रत्यय, अनुबन्धों का प्रयोगाभाव, द्विर्वचनादि, प्रकृत सूत्र से हस्वनिषेध तथा "कारितस्यानामिविकरणे" (३ । ६ । ४४) से कारितसंज्ञक 'इन्' प्रत्यय का लोप ।
२. अडुढौकत् । अट् + ढौक + इन् + चण् + दि। 'ढौकन्तं प्रायुक्त' इस अर्थ में 'ढौकृ शब्दे' (१।३३२) धातु से 'इन्' प्रत्यय धातुसंज्ञा, 'दि' प्रत्यय, अडागम, चण् प्रत्यय, द्विर्वचनादि, ह्रस्वनिषेध, इन्लोप, '"ह्रस्वः " ( ३ । ३ । १५) से अभ्यासगत क को उकार तथा "द्वितीयचतुर्थयो: प्रथमतृतीयौ” (३ । ३ । ११) से ढकार को डकारादेश । ३. अतुत्रौकत् । अट् + त्रौकृ + इन् + चण् + दि । 'त्रौ गत्यर्थ:' (१। ३३१) धातु से 'इन्' प्रत्यय, धातुसंज्ञा, अद्यतनीसंज्ञक 'दि' प्रत्यय, अडागम, चण् प्रत्यय, ह्रस्व का निषेध, द्विर्वचनादि तथा औकार को ह्रस्व उकार ।। ६७७ ।
६७८. लोपः पिबतेरीच्चाभ्यासस्य [ ३ । ५ । ४६ ]
२२७
[सूत्रार्थ]
चण् प्रत्यय से परवर्ती इन् के होने पर 'पा' धातु की उपधा का लोप तथा अभ्यासघटित अकार को ईकार आदेश होता है ।। ६७८ ।
[दु० वृ०]
पिबतेरुपधाया लोपो भवति अभ्यासस्यच्च भवति इनि चण्परे । अपीप्यत् । पिबतेरिति किम् ? पै ओवै अपीपयत् । पा रक्षणे - अपीपलत् ।। ६७८ ।
—
[दु० टी० ]
लोपः । अपीप्यदित्यादि । "शाच्छासाह्वाव्यावेपामिनि ” (३ । ६ । २१) इत्यायिरादेशः, ह्रस्वापवादो लोप: प्रवर्तमानोऽपि द्विर्वचनमपेक्षते । 'स्वरविधि: स्वरे द्विर्वचननिमित्ते ' कृते द्विर्वचन इति । अभ्यासस्येति किमर्थम् उपधाया एव पक्ष ईकारादेशः स्यादिति । न च भिन्नविभक्तिनिर्देशोऽन्यथा बांधयति - तदन्तविधिना यकारस्यापि स्यादिति । 'लोप: पिबतेरीदतः' इत्युक्तेऽन्यत्राकारो नास्तीत्यभ्यास एव प्रतीयते, उत्तरत्राप्यतः संबन्धो नास्तीति तिष्ठतिजिघ्रत्यार्हस्वापवाट ईकारो द्विर्वचनात् प्रागेव ? सत्यम् । अभ्यासग्रहणं प्रतिपत्तिगौरवनिरासार्थम् । 'पित्रतेः पीप्यः' इत्यास्ताम्, अनेकवर्णत्वादभ्यासस्य भविष्यतीति न चांद्यम्, उपधाया इति वर्तते तस्या एव प्रसज्येतेति ।। ६७८ ।
"
[वि० प० ]
लोपः । अपीप्यदिति । 'धेट् पा पाने' (२ । २६४), हेताविन्, “शाच्छासाह्वाव्यावेपमिनि” (३ । ६ । २१) इत्यादिना आयिरादेशः, द्विर्वचनं कृते पश्चादुपधाभूतस्याकारस्य लोपः स्वरविधित्वात्, ततः संयांग पर गुरुत्वाद् " दीर्घो लघोः " ( ३ | ३ | ३६ ) स्यादितीकार उच्यते । अपीपलदिति । " पातेर्लोऽन्तः " ( ३ । ६ । २३) ।। ६७८ ।
[बि० टी० ]
लोपः । ननु 'लोपः पिवतेरीटन:' इति कृते सिध्यति, अभ्यासग्रहणं किमर्थम् ।