________________
तृतीये आख्याताध्याये पञ्चमो गुणपादः
२२५ अन्य आह-स्वरूपग्रहणं चेक्रीयितलुगनिवृत्त्यर्थम्-अशशासत्। ओणेरित्यादि । ऋश्चासावनुबन्धश्चेति ज्ञापनमेवार्थ: प्रयोजनमस्येति 'ओण अपनयने' (१।१४७) इत्युपलक्षणम्, तथा 'ओख राख एजृ कम्पने' (१।३६, ७०, ३४७) इति-मा भवान् ओणिणत्, मा भवान् ओचिखत्, मा भवान् एजिजत्। "स्वरादेद्वितीयस्य" (३।३।२) इति द्विवचने कृते ह्रस्वस्याप्राप्तिरेवोपधात्वाभावात्। यदेषामृदनुबन्धत्वं नास्ति, तज्ज्ञापयति – नित्यमपि द्विवचनं ह्रस्वत्वेन परेणापि बाध्यते इत्याह-तेनेत्यादि। मा भवान् अटिटद् इति, अत्र त्रीणि कार्याणि प्राप्नुवन्ति–द्विर्वचनं ह्रस्व: कारितलोपश्च। तत्र 'लोपस्वरादेशयोः स्वरादेशयोर्विधिर्बलवान्' (का० परि० ३५) इति पूर्व ह्रस्त्वम्, ततो द्विर्वचनम्, ततः कारितलोपः।
ननु च ‘परान्नित्यम्, नित्यादन्तरङ्गम्, अन्तरङ्गाच्चानवकाशं बलीय:' (का० परि० ५१) इति ह्रस्वत्वमन्तरङ्गं वर्णाश्रयत्वात् किं ज्ञापकेनेति ? सत्यम्, 'वात् प्राकृतं बलीयः' (का० परि० ८१) इत्युच्यते, न समानलापश्च। “शास्वृदनुबन्धानाम" (३। ५ । ४५) इति कृते धात्वधिकारात् शासादेरिनि पूर्वस्याधातुत्वान्न प्राप्नोति ऋदनुबन्धसाहचर्यात्। अथ समानलोपवचनसामर्थ्याच्छब्द एवावसीयते इति प्रतिपत्तिगौरवं स्यात् । भ्राज़-भास-भाष-दीप-जीव-मील-पीड-कण-रण-भण-श्रण-हेठ-लुपीनां त्रयोदशानां विभाषा न वक्तव्या एवेत्याह-भ्राज इत्यादि। अनयोर्धात्वार्थीदनुबन्धा नादरणीय इत्यर्थः। तथा च "टु भ्राज दु भ्रातृ टु भ्लाश दीप्तो (१ । ५४०), भास दीप्तौ' (१। ४४०) इति पठ्यते। ‘भाष व्यक्तायां वाचि, दीपी दीप्तो, जीव बलप्राणधारणयोः, मील स्मील मील निमेषणे, पीड अवगाहने, अण रण वण भण मण कण क्वण ष्टन वन ध्वन शब्दार्थाः, चण श्रण दाने, हठ विबाधायाम्, लुप्ल छेदने (१ । ४३४; ३।९५; १।१९२, १६६; ९ । १२; १ । १४६, ३६०, ५। ८,५१५)। लुपिलुचिरित्येके वदन्ति, हेठमपि न पठन्ति। सर्वत्र हेताविन् वक्तव्यमन्तरेणापि द्वेरूप्यं सिध्यतीत्याह –भ्राजनमित्यादि। घान्तादिन् कारितं धात्वर्थे इतीन, ततो हेताविन् । समानलोपत्वाद् ह्रस्वा न स्यात् । एवम् 'अबभाषत्, अबभासत्, अदिदीपत्, अजिजीवत्, अमिमीलत्, अपिपीडत्, अचकाणत्, अरराणत्, अबभाणत्, अशश्राणत्, अजिहठत्, अलुलापत्' इति साध्यस्यात्र विवक्षितत्वात्।। ६७७।
[वि० प०]
न शास्वः । अथ किमर्थम् ‘ओ अपनयने' (१ । १४७) इत्यस्य ऋदनुबन्ध उच्यते। औणिणदित्यत्र ह्रस्वप्रतिषेधार्थमिति चेत्, तदयुक्तम्। इह सत्यसति वा ह्रस्वत्वे नास्ति विशेषः। यत: "स्वरादीनां वृद्धिरादेः" (३। ८।१७) इति वृद्ध्या भवितव्यं यत्र, तर्हि न वृद्धिस्तदर्थं "न मामास्मयोगे" (३। ८। २१) इति निषेधान्मा भवान् आणिणद् इति
ओकारस्य ह्रस्वो मा भूद्, नैतदेवम्। इह ह्रस्वत्वे कृते अकृतेऽपि "स्वरादेर्द्वितीयस्य" (३।३।२) इत्यनेन द्विवचनेन भवितव्यम्। द्विवंचने कृते ह्रस्वो नास्ति अनुपधत्वात्, अतो नित्यत्वाद् द्विवचने सति ह्रस्वस्य न प्राप्तिरिति तन्निषेधार्थम् ऋदनुबन्धकरणमनर्थकम् इत्याह – ओणरित्यादि। अन्यथा अटेरित्युपधाया दीर्घत्वे नित्यत्वाद् द्विवचने कृते कथं ह्रस्व: स्यादिति भावः। तत्रापि केवलस्यावर्णस्याकार इति कृते विशेषाभावान्मायोगे दर्शितम्। न च वक्तव्यं वर्णाश्रयत्वाद् ह्रस्वत्वमन्तरङ्गं नित्याद् द्विवंचनात् प्रागेव भविष्यति