________________
२२०
कातन्त्रव्याकरणम्
"
ननु इन् इति स्थिते पूर्ववद् वृद्ध्यादिव्याख्यानं किमत्र युक्तम्, वचनादन्त्यस्यानन्त्यस्य वा। तत्रानन्त्यपक्षे ‘सप्तम्या निर्दिष्टे पूर्वस्य' (का० परि २१) इत्यस्य बाधा स्यात्। अन्त्यपक्षेऽपि वृद्ध्यावादेशयोर्बाधा स्यात् ? सत्यम्, उभयसम्भवे विशेषणविशेष्यभावं प्रति कामचार: इत्यनन्त्यस्वरस्य ह्रस्वः स्याद् इत्येवं विज्ञायमाने 'अचकाङ्क्षत्' इत्यत्रापि स्यादिति भावः । नन्वेकेन वर्णेन व्यवधानमाश्रीयते न त्वनेकेन । “न शास्वृदनुबन्धानाम्” (३। ५। ४५) इति लिङ्गाच्च । तर्हि उत्तरार्थं " लोपः पिबतेरिच्चाभ्यासस्य” (३। ५। ४६) इत्युपधास्थाकारस्य लोपो यथा स्यात्, अन्त्यस्य मा भूत् । ननु च ह्रस्वापवादो लोप:, उत्सर्गादेशे चापवादेन भवितव्यमिति । यत्रैव ह्रस्वप्रसङ्गस्तत्रैव लोपः स्यात्, न स्वरोपस्थानाद् वृद्धिसामर्थ्याच्च । ह्रस्वविधेरनन्त्यस्य लोपविधिस्तदन्तस्यैव स्यात्। सत्यपि सम्भवे बाधकं भवतीति तस्मादुत्तरार्थं क्रियमाणमिहापि सुखप्रतिपत्त्यर्धमुपधाग्रहणम् इति।
गोनावमाख्यातवान् इति। ‘"इन् कारितं धात्वर्थे” (३।२।९) इतीन्, इन्यौकारस्य लोपे 'स्वरादेशः परनिमित्तक: पूर्वविधिं प्रति स्थानिवद् भवति' (का० परि० ९) इत्यनुपधाया ह्रस्वो न स्यादित्यर्थः । यद्येवम्, असमानलोपग्रहणेनापि नार्थः । साम आख्यत् अससामत्। मालामाख्यत् अममालद् इति । स्थानिवद्भावात् सिध्यति ? सत्यम्, ह्रस्वविधिं प्रति स्थानिवद्भावो नास्ति, तदर्थं मनसिकृत्य प्रत्युदाहृतम् – सामान्याख्यद् अससामत् इति। एवं स्वामिनमाख्यद् असस्वामत् । तथा गोमिनमाख्यद् अजुगोमत् । स्वरव्यञ्जनयोरयमादेशः : समुदायस्य तात्पर्येण निवृत्तौ व्याख्यायमानायां समुदाय एव निवर्तते नावयव इति। नास्त्यवयवकृतस्थानिवद्भावः, स्थानिवद्भावादादेशो विशिष्यते स्वरस्यादेशः स्वरादेशः स्थानिवद्भवतीति । अन्य आह अवयदार्थकत्वात् समुदायस्य समुदाये स्थानिनि अवयवानामपि स्थानित्वम् । अनेकस्थानिसम्बन्धेऽपि चाश्रीयमाणस्य व्यापारात् स्वरस्यादेश इति व्यपदेशस्तदाऽसमानलोपग्रहणं स्थानिवद्भावार्थम्, तेन 'अजुगोनत्' इत्यादि सिद्धं भवति । पूर्वपक्षवादिनो मतेन यद्यपि समानश्चान्यश्च लुप्यते तथापि तदाश्रयप्रतिषेधो भविष्यति असमानलोपश्रुतेरकृतार्थत्वादिति ।। ६७६ ।
-
[वि० प० ]
""
इन्य० । समानस्य लोपः समानलोप:, न विद्यते समानलोपो यस्य सः असमानलोपः शब्दः, तस्योपधा असमानलोपोपधा तस्या इत्याह अविद्यमानेत्यादि । कृजिलूभ्यो हेताविन्, जयते: “स्मिजिक्रीञमिनि" ( ३।४।२४) इत्यादिनात्त्वे, " अर्तिही० (३।६।२२) इत्यादिना पकारागम:, इतरत्र वृद्धिरेव, अद्यतन्याम् प्राप्तयोः परत्वाद् ह्रस्व:, ततो द्विर्वचनम्, इनि कृतस्य स्थानिवद्भावात् 'कृ-जि-लू' इत्येतेषां द्विर्वचनं भवति, अलोपे समानस्य सन्वल्लघुनीनि चण्पर इति सन्वद्भावः । “करोतेः, सन्यवर्णस्य” (३ | ५ | ४ ३ । २६ ) इतीत्त्वम् । लुनातेस्तु " उवर्णस्य जान्तस्थापवर्गपरस्य" (३।३।२७) इत्यादिनाऽभ्यासे इत्त्वम्, सर्वत्र “दीर्घो लघोः
दि, चण्, द्विर्वचनह्रस्वयोः
-