________________
तृतीये आख्याताध्याये पञ्चमो गुणपादः
२१९ 'प्र + आङ्' उपसर्गपूर्वक 'वृञ् वरणे' (४। ८) धातु से सन्, अगुण ऋकार को उर्, द्विवचनादि, उकार को दीर्घ, धातुसंज्ञा तथा विभक्तिकार्य।
६. संवुवूर्षते। सम् + वृङ् + सन् + ते। 'संवरितुमिच्छति' इस अर्थ में 'सम्' उपसर्गपूर्वक वृङ् संभक्तौ' (८। ५१) धातु से सन्, अगुण, उर्, द्विर्वचनादि, दीर्घ, मूर्धन्यादेश, धातुसंज्ञा तथा विभक्तिकार्य।। ६७५ ।
६७६. इन्यसमानलोपोपधाया ह्रस्वश्चणि [३। ५। ४४] [सूत्रार्थ]
इन् के बाद चण् प्रत्यय के परे रहते ऐसे उपधासंज्ञक वर्ण को ह्रस्व आदेश होता है, जिससे परवर्ती समानसंज्ञक वर्ण का लोप न हुआ हो।। ६७६ ।
[दु० वृ०]
अविद्यमानसमानलोपोपधाया ह्रस्वो भवति इनि चण्परे। अचीकरत् अजीजपत्, अलीलवत्। इन्ग्रहणम् इन्सामान्यार्थम्। तेन वादितवन्तं प्रयोजितवान् 'अवीवदद् वीणां परिवादकेन' इति असमानलोपतेव। असमानलोपोपधाया इति किम् ? अससामत् । उपधाया इति किम् ? अचकाङ्क्षत्। कथं गोनावमाख्यातवान् – अजुगोनत् ? ओतः स्थानिवद्भावात्।। ६७६।
[दु० टी०]
इन्य० । समानस्य लोप: समानलोपः, अविद्यमानः समानलोपो यस्य सोऽसमानलोपः, तस्योपधा असमानलोपोपधा, तस्या इत्याह–अविद्यमानेत्यादि। चण् परो यस्मादिनः स चण्परः, कृजिलभ्यो हेताविन् । द्विवचनहस्वयोः प्राप्तयोः परत्वाद् ह्रस्वस्ततो द्विवचनम्। इनि कृतं स्थानिवदिति कृजिलधातुरूपमेवाभिधत्ते। इन्ग्रहणं किमर्थम् - 'अलीलवत्, अपीपचत्' इत्यत्रोकारस्य ह्रस्वत्वम् मा भूत्, विषयविज्ञानाद् वृद्धिरिह बाधिका चेत् कृतायां वृद्धावीकारस्य प्रसज्येत। तत्राप्यन्तरङ्गत्वाद् आवादेशश्चेत्, नैवम्। प्रागेव वृद्धेरावादेशाच्च चणि ह्रस्वभाविन्युपधा, तस्मादन्तरङ्गाणामनवकाशन प्रतिबन्धकत्वाद् ऊकारावस्थायामेव ह्रस्व: प्रसज्यत इतीन्ग्रहणम्।
___अस्तु, उकारावस्थायामेव ह्रस्वः, 'यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते' (का० परि० ४७) इति ह्रस्वा वृद्धिमेव बाधते, न तु गुणम् । गुणे कृते वादेश च सिद्धम् - अलीलवत् इति, तर्हि 'अदीदपत्, अदिधपद्' इत्यत्र पकारागममन्तरङ्ग बाधित्वा ह्रस्वः, तत्र निमित्ताभावात्। पकारागमो न सिध्यति। अन्य आह – वृद्ध्यावादेशयोः कृतयोरिनो लोपे कृते चणि परे ह्रस्वभाविन्यपधा भवतीति इनो लोपस्य स्थानिवत्त्वाद् व्यवधानं स्यात्, अत्र प्रतिपिध्यते स्थानिवद्भावः। चण्परनिर्देशनेति। अस्य वचनस्येदं प्रयोजनम् 'अवीवदद् वीणां परिवादकेन' इत्यत्र ह्रस्वत्वं यथा स्यात्। किमर्थं चण्परग्रहणम् इन्ग्रहणमेवास्ताम्-कारयति, हारयति। मानुबन्धानां ह्रस्ववचनादिह न स्यात्। 'अचीकरत्, अजीहरत्' इत्यत्र स्यादिति दुर्ज्ञानम्। उपधत्यादि। उपधाग्रहणमन्तरेणान्तस्य मा भूत्।