________________
२०४
कातन्त्रव्याकरणम्
[दु० टी० ]
हुधु । धुटो जातिप्रधानत्वाद् द्विवचनम्। भिन्नाद् इत्यादि । वक्तव्यवादिनां मतेन 'पूर्वपरयोः परो विधिर्बलवान्' (कलाप० २२८ । ७० ) इति सम्बध्यते । येषां तुह्यार्थे निपाता एवेदृशा इति दर्शनम्, तेषां मतमादायैव न दोषः । भिन्धकीत्यादि । अन्तरङ्गत्वादकि कृते सकि एव हेर्धित्वम्, कथमकः श्रवणं स्यात् ? सत्यम् । यावत्सम्भवस्तावद्विधि:' (का० परि० ५४ ) इति पुनरग् भविष्यति तत्र वाशब्दस्य बहुलार्थत्वाद् वेति मनसि कृत्वाह पश्चादगिति । कथमित्यादि । शब्दान्तरस्य प्राप्तयोरुभयोरनित्ययोः परत्वाद् इति कृते आगमस्य तद्ग्रहणेन ग्रहणात् सेटोऽपि धित्वं प्राप्नोतीत्याह सेट्कत्वादिति। नेटि रधेरपरोक्षायाम् इत्यतो नेटीति वर्तते इटि सति न स्यात्। रभिलभोरनिट्त्वात् पूर्वसूत्रेण सम्बध्यते इति भावः ।
अन्य आह वन्सेर्वशब्दस्योत्वमिति सेग्रहणाभावे सेट्कस्यापि न ग्रहणम्, तदसत्। तत्रैव सेट्कस्यापि वर्णितं प्रयोजनम् । अथवा 'निर्दिश्यमानस्यादेशा न भवन्ति' इति य एवांच्चार्यते शब्दस्तस्यादेश: सागमस्त्वागमानाम् अव्यभिचारित्वाच्छब्दान्तरे श्रूयमाणे प्रतीयमाने चोच्चार्यते 'पञ्चम्या निर्दिष्टे परस्य' (का० परि० २२) इतीटो व्यवधानान्न भवति। अथवा हेरिति कृते हकारमात्रं वा कार्यत्वेन निर्दिश्यते धकारमात्रं च आदेशत्वेन। इकारस्तूच्चारणार्थ एव तदा 'जुहुतात्' इत्यादौ तातणादेशवादिनो मते नाप्रसङ्ग इति ।। ६६७ ।
[वि० प० ]
हुधुड्भ्याम् जुहुधीति । जुहोत्यादित्वाद् द्विवचनम् । चकाद्धीति । 'चकासृ दीप्तौ ' (२ । ३८) । हेर्धिभावे कृते "धुटां तृतीयश्चतुर्थेषु ” (३ । ८। ८) इति सकारस्य दकारः । छिदिभिदो रुधादित्वान्नशब्दः । रुधादेर्विकरणान्तस्य लोपः परत्वादिति । परत्वात् तातणि आशिषि “तुह्योस्तातण् वा वक्तव्यः" इत्यस्य वक्ष्यमाणत्वात् परत्वमित्यर्थः । ननु च "आख्यातस्य च " इति वचनाद्धेरन्त्यस्वरात् पूर्वोऽग् भवन् तद्ग्रहणेनैव गृह्यते । ततः साक एव हेर्धिरिति कथमक्श्रवणं स्यात् ? सत्यम् । तत्र बहुलत्वात् पश्चाद् भविष्यतीत्याहभिन्धकीत्यादि दर्शितम्। भिन्धकीत्यादि । कुत्सितं भिन्धीत्यक् । कथमित्यादि । इह परत्वाद् रुदादेः सार्वधातुक इति कृतस्यंटस्तदग्रहणेन ग्रहणात् सेटोऽपि हेर्धित्वं प्राप्नोतीति परिहारमाह—सेट्कत्वादिति । " नेटि रधेरपरोक्षायाम्” (३ । ५ १३३) इत्यतो नेटीति वर्तते, तत इटि सति न भवतीति पूर्वसूत्रेण सम्बध्यते रभिलभोरनिट्त्वात्।। ६६७।
"
-
-
[fao to]
हु० । ननु धिरयं सविसर्गान्तो निर्विसर्गान्तो वा । तत्र पञ्जीकारस्य मते निर्विसर्गान्त एत्र। एकस्थानं विधिर्भवन् अनेकवर्णः सर्वस्येति न्यायात् समुदायस्य स्यादित्युक्तत्वात् । टीकाकारस्य मते सविसर्गान्त एव पाठः । हेरिति हकारमात्रं कार्यित्वेन निर्दिश्यते इत्युक्तत्वात्। तस्मात् सविवाद एव पक्ष: । तत्राहुः केचित् सविसर्गपक्ष टीका,
-