________________
तृतीये आख्याताध्याये पञ्चमो गुणपादः
१६७
[दु० वृ०]
नामिन उपधायां सिच्यात्मनेपदे आशिषि चानिटि गुणो न भवति। अभित्त, अच्छित्त, अभित्साताम्, अदुह्वहि, अदुग्ध, अदुग्धाः । दुहदिहलिहगुहामात्मने वतवर्गे वा सणेव, तत्र व्यवस्थितवानुवृत्तेः। सिचोऽद्यतन्युपलक्षणत्वात् सिद्धम्। भित्सीष्ट, भुक्षीष्ट। अनिटीति किम् ? अवर्धिष्ट, वर्द्धिषीष्ट। इहात्मनेग्रहणं गुणबाधिका वृद्धिरिति ज्ञापनार्थम्। तेन न्यनुवीत्, न्यधुवीत्। कुटादित्वादगुणे वृद्धिर्न स्यात् ।। ६४२ ।
[दु० टी०]
सिजा०। आत्मनेपदे इत्येकापीयं सप्तमी अर्थवशाद् भिद्यते। सणेवेत्यादि। 'अपवादविषयं परित्यज्योत्सर्गः प्रवर्तते' (का० परि० ५५) इति सिच् न भवति। सिच: सम्बन्धिन्यात्मनेपद इत्यर्थादद्यतन्युपलक्ष्यते। अदुवहीत्यत्र दन्त्योष्ठ्योऽयं वकारः। सणि तु अधुक्षत, अधुक्षथाः, अधुक्षावहि। "व्यञ्जनान्तानामनिटाम्" (३। ६। ७) इति वृद्धेविषयत्वाद् "आशिषि च परस्मै" (३। ५। २२) इति गुणप्रतिषेधादात्मनेपदमेव गम्यते। तथा उत्तरत्रापि सूत्रे “सिचि परस्मै स्वरान्तानाम्” (३। ६।६) इति वृद्धिरस्त्येवेत्याह– 'इहात्मने' इत्यादि। ननु कथं ज्ञापकम् अद्राक्षीदित्यत्र सृजिदृशोरागमो न प्राप्नोति, सिचोऽगुणत्वात् ? सत्यम्। वृद्धिस्थानमाश्रित्य भविष्यतीत्यदोषः। 'नु स्तवने, धू विधूनने' (५। १०४, १०५) कुटादिषु परस्मैपदिनौ।। ६४२।
[वि० प०]
सिजाशिषो०। अभित्तेति। "धुटश्च धुटि" (३। ६। ५१) इति सिचो लोपः। अदुवहीति। वकारोऽयं दन्त्योष्ठ इति धुट्त्वाभावाद् दादे? न भवति। अदुग्ध, अदुग्धा इति। "दादेर्घः' (३। ६ । ५७) इति घकारे कृते "पढधभेभ्यस्तथो|ऽधः" (३। ८। ३) इति धकारः, “धुटान्तृतीयश्चतुर्थेषु' (२।३। ६०) इति घस्य गकारः। अथ कथमिदं सिद्धं यावता दुहादीनां शिडन्तत्वात् सणा भवितव्यमित्याह – दुहदिहेत्यादि। तत्र हि सविधौ "उषविदजागृभ्यो वा" (३। २। २०) इत्यतो वाशब्दोऽनुवर्तते। तेन दुहादीनामात्मनेपदे वकारे तवर्गे च विभाषया सणेव न सिज् इत्येवकारेण सूच्यते। उत्सर्गो ह्यपवादविषयं परिहरतीति सविनिर्मक्तपक्षे सिजपि न भवतीति सणि नित्ये प्राप्ते दुहादेर्विकल्प इत्यपवादविषयता। यदि पुनरिह न सिच् प्रत्ययः कथन्तर्हि गुणनिषेध इत्याह – सिच इत्यादि। सिच: सम्बन्धिन्यात्मनेपदे इत्युक्तेऽर्थाद् अद्यतन्युपलक्ष्यते। एवं दिह–अदिवहि, अदिग्ध, अदिग्धा इत्यादावपीति। यदा तु सण् स्यात् तदा अधुक्षावहि, अधुक्षत, अधुक्षथा इत्यादि। आशिषि दर्शयति - भुक्षीष्ट, भित्सीष्टेति। अथ किमर्थमात्मनेपदग्रहणं सिचि परस्मैपदे “व्यञ्जनान्तानामनिटाम्” (३। ६ । ७) इति वृद्धिरेवास्ति, यथा अभैत्सीदिति। तथा "आशिषि च परस्मै" (३। ५। २२) इति गुणप्रतिषेध इति अर्थादात्मनेपदमवगम्यते इति। तथोत्तरत्रापि न प्रयोजनम्, “सिचि परस्मै स्वरान्तानाम्” (३। ६। ६) इति वृत्तिविषयत्वादित्याह – इहेत्यादि। 'नु स्तवने,