________________
१५२
तृतीये आख्याताध्याये पञ्चमो गुणपादः
नामिन इत्येतदुपस्थितं वेदितव्यम् । तेन च तदन्तविधिर्भविष्यतीति प्रतिपत्तिरियं गरीयसी स्यात् । नाम्यन्तस्य गुण इत्युक्ते प्रकरणवशाद् धात्वधिकाराच्च 'पटुता' इति कुतो गुणप्रसङ्गः, किन्तु विकरणस्येति योगविभागः स्यात् । 'वरमक्षराधिक्यं न पुनर्योगविभागः ' इति युक्तम्। धातुविकरणयोरिति । 'उम्भिता, क्रीणाति' इति भकारस्योष्ठ्यस्य ओंकार ओष्ठ्यः स्यात्। आकारस्य कण्ठ्यस्य एकारः कण्ठ्योऽपि गुणः स्याद् इति नामिग्रहणम्। नीभ्याम्, लूभ्यामिति। यद्यपि क्विबन्तानामपि धातुत्वमस्ति तथापि लिङ्गत्वाभिसंबन्धाद् गौणत्वमिति भावः ।। ६३३ ।
[वि० प० ]
नाम्यन्तयोः। ननु सार्वधातुके विकरणस्य भवतो गुणोऽपि तस्मिन्नेव भवतीति युक्तम्, धातोस्तु नामिनो निर्निमित्त एव गुणः स्यात् । न च वक्तव्यम् । एवं सति यणादिषु गुणप्रतिषेधो व्यर्थः इति तस्य विषयसप्तम्यैवोपपन्नत्वात् । अथ "उवर्णादावश्यके” (४।२।३७) इति वचनाद् गुणस्य सनिमित्ततां मन्यते । अन्यथा निरपेक्षस्य गुणे सति उवर्णाभावाद् घ्यण्विधानमनर्थकमिति, तदयुक्तम् । कृतेऽपि गुणे भूतपूर्वगत्या वचनाद् घ्यण् भविष्यतीति? सत्यमेतत्, किन्तु " इवर्णादश्विश्रिडीङ्शीङ : " ( ३ । ७। १४) इत्यादिनेट्प्रतिषेधोऽनर्थकः : स्यात् । तत्र हि इवर्णान्ताद् विहितमसार्वधातुकमनिडिति व्याख्यानं करिष्यति। यदि पुनरिह निरपेक्षो गुणः स्यात्, तदेतन्नोपपद्यते इत्यनर्थकमेवेदं स्यादित्याह अर्थाद् इत्यादि। अथवा सनिमित्तेन विकरणेन साहचर्याद् धातोरपि सनिमित्तस्यैव गुण
इति ।
न च वक्तव्यम्, विकरणस्य सार्वधातुकस्यैव निमित्तत्वाद् धातोरपि सार्वधातुकमेव निमित्तमिति यणादिष्वसार्वधातुकेषु प्रतिषेधस्यानर्थक्यप्रसङ्गात् । एवमुत्तरत्रापि सूत्रे इति । [छिदिभिदिरुधिक्रुधीत्यादेरनिड्विधानमनर्थकमिति]। " अपूर्वे द्वे सन्ध्यक्षरे च गुण" (३।८।३४) इति स्थानेऽन्तरतमतया प्रवर्तते, अत्र अर् इत्यकारः कण्ठ्यो रेफो मूर्धन्य इति वचनादेशान्तरतमतया ऋवर्णस्य मूर्धन्यस्य स्थाने भवति । एवम् एकारः कण्ठतालव्यः । इवर्णस्य तालव्यस्यैव गुण एकार:, ओंकारश्च कण्ठ्य ओष्ठ्यश्चेति उवर्णस्य ओष्ठ्यस्य गुण ओकार इति । एता इति । व्यपदेशिवद्भावेन इणो नाम्यन्तता । 'उम्भिता, क्रीणाति' इति । अन्यथा भकारस्योष्ठ्यस्य ओंकार ओष्ठ्यो गुणः स्याद् आकारस्य कण्ड्यस्य एकदेशान्तरतमः : 'अर्' स्यादिति भावः ।। ६३३ ।
[समीक्षा]
कातन्त्रकार ने अवर्णभिन्न स्वरों को 'नामी' संज्ञा की है "स्वरोऽवर्णवर्जो नामी” (१ । १ । ७), तदनुसार इसमें इ-ई-उ-उ-ऋ-ऋ-लु-लू-ए-ऐ-ओ-औ इन १२ वर्णों का समावेश होता है। पाणिनि ने 'इक्' प्रत्याहार में 'इ- 3 - ऋ लृ ' इन चार वर्णों को स्वीकार किया है। दोनों व्याकरणों में प्रकृत सूत्र के जो उदाहरण दिए गए हैं, उनमें 'इ–उ–ऋ' वर्णों को ही गुण आदेश होता है। अत: 'नाम्यन्त इगन्त'