________________
अथ तृतीये आख्याताध्याये पञ्चमो गुणपादः
६३३. नाम्यन्तयोर्धातुविकरणयोर्गुणः [३। ५। १] [सूत्रार्थ]
प्रत्यय के पर में रहने पर नाम्यन्त धातु तथा नाम्यन्त विकरण को अन्तरतम गुण आदेश होता है।। ६३३।
[दु० वृ०] __नाम्यन्तयोर्धातुविकरणयोरन्तरतमो गुणो भवति, अर्थात् प्रत्यये परे। एता, चेता, नेता, स्तोता, भविता, कर्ता। सुनोति, तनोति। नाम्यन्तयोरिति किम् ? उम्भिता, क्रीणाति, ग्लायति, म्लायतीत्यैकारोपदेशबलान्न गुणः। नीभ्याम्, लूभ्याम् इति गौणत्वात्।। ६३३।
[दु० टी०]
नाम्य० । ननु विकरणस्य सार्वधातुकनिमित्तत्वात् सार्वधातुके परतो गुणो भवति, धातोस्तु निर्निमित्त एव गुण: स्यात्, ‘नामिनः' इति प्रतिषेधादिविषयो विषयसप्तम्योपपद्यते। “उवर्णादावश्यके घ्यण' वचनाद् भूतपूर्वाच्च न विरुध्यते। वक्ष्यमाणेऽपि योगे 'कुण्डिता, विच्छिता' इत्यत्र न गुणप्रसङ्गः, धातूपदेशावस्थायामेव ज्ञापितस्यानुषङ्गस्य नित्यत्वात्। तथा निरपेक्षस्वरूपमात्राश्रितस्य छकारस्य द्विर्भावस्येति, किन्तु चेता, स्तोता, कर्ता' इतीट्प्रतिषेधो न स्यात् ‘सकृद् बाधितो विधिर्बाधित एव' (का० परि० ३६) इत्यस्याविषयत्वात्, इवर्णाद् ऋकाराद् उकाराच्च यद् विहितमसार्वधातुकमिति व्याख्या नोपपद्यते। नात्र बुद्धिकृतव्यापार आश्रीयते "प्रत्ययः परश्च" (३। २। १) इति वचनात् सार्वधातुकासार्वधातुकनिमित्त इत्यदोषः। अथवा विकरण: सनिमित्तकस्तत्साहचर्याद् धातुरपि सनिमित्तक एवेति विकरणेन साहचर्याद् धातुरपि सार्वधातुकनिमित्तक एवेति नोच्यते यणादिषु गुणप्रतिषेधात्। नामी अन्ते ययोरिति अन्तग्रहणं विस्पष्टार्थमेव 'येन विधिस्तदन्तस्य" (का० परि० ३) इति वचनात्। अथ धातु- विकरणाभ्यां नामी विशिष्यते "नामिनश्चोपधाया लघो:" (३। ५। २) इति नियमार्थ स्याद् विशेषणविशेष्यभावस्येष्टविषयत्वात्। अत्र अरित्यकार: कण्ठ्यो रेफो मूर्धन्यो वचनादेकदेशेनान्तरतमतया ऋवर्णस्य मूर्धन्यस्य स्थाने प्रवर्तते। ___एतेति। 'इण् गतौ' (२।१३) व्यपदेशिवद्भावेन नाम्यन्तत्वमस्तीति भावः। ननु "नामिनो गुणवृद्धी" इति परिभाषेव कथमिह न कृता स्थानान्तरेषु च नामिग्रहणं न विधेयं स्यात् ? सत्यम्। यत्र गुणवृद्धी श्रूयेते तत्र नामिन एव स्थाने वेदितव्ये इति चरितार्थत्वान्नामिनस्तदन्तविधिना सम्बन्धो न स्यात्। अथ यत्र गुणवृद्धी श्रूयेते तत्र