________________
१४८
कातन्त्रव्याकरणम्
[दु० वृ०]
इणादिभ्यः परस्य सिचो लुग् भवति परस्मैपदे परत:। अगात्, अध्यगात्, अस्थात्, अदात्, अधात्, अपात्, अभूत्। पिबतेरिति किम् ? 'पा रक्षणे' (२।२१) – अपासीत्। परस्मा इति किम् ? समस्थिषत, अदिषत, अधिपत। घाशाच्छासाधेटा वा वक्तव्यम् - अघ्रात्, अघ्रासीत्। अशात्, अशासीत्। अच्छात्, अच्छासीत्। असात्, असासीत्। अधात्, अधासीत् ।। ६३२।
॥ इति दौर्गसिह्या वृत्तावाख्याते तृतीयाध्याये सम्प्रसारणपादश्चतुर्थः समाप्तः।।
[दु० टी०]
इण्०। इहापि 'इण्वदिकोऽपि ग्रहणम्' इत्याह–अध्यगादिति। 'दा' इति संज्ञा गृह्यते, देङ: आत्मनेपदित्वाद् इहाग्रहणम्। अलुविकरणेन भवतिना साहचर्यात् पिबतेर्ग्रहणं भविष्यति, किं तिपा निर्देशेन, 'पै ओ वै शोषणे' (१।२६१) इत्यस्याप्यग्रहणम्, लाक्षणिकत्वादिति ? सत्यम्, प्रतिपत्तिरियं गरीयसीति। घ्राशाच्छासाधेटां वा वक्तव्यम् इति 'घ्रा गन्धोपादाने, शो तनूकरणे, छो छेदने, षो अन्तकर्मणि, धेट पा पाने' (१।२६५; ३१९, २०, २१; १।२६४), दासंज्ञकत्वान्नित्ये प्राप्ते विभाषेयम्। वक्तव्यं व्याख्येयमिति केचिन्नित्यं केचिद् विभाषेयं स्मरन्ति, तदनेन वाक्येनाविर्भावितमिति भावः। तनादीनां तथासोनलोपमिच्छन्त्येके, तेषां "ह्रस्वाच्चानिटः” (३।६।५२) इति सिचो लोपो भवति। थासा सहचरितस्तशब्दोऽप्येकवचनमेव गृह्यते, तनादय: आगणान्तात् । अतत, अतथा:। असत, असथा:। केचित् सनोते कं सिचं कृत्वा आत्वमिच्छन्ति। असात, असाथा:। अतनिष्ट, अतनिष्ठाः। असनिष्ट, असनिष्ठाः ।। ६३२ । ॥ इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायामाख्याते तृतीयाध्याये चतुर्थः सम्प्रसारणपादः समाप्तः।।
[वि० प०]
इण् । अत्रापि 'इण्वदिकोऽपि भवति' इत्याह–अध्यगादिति। अपासीदिति सिचि परे "यमिरमिनम्यादन्तानां सिरन्तश्च" (३। ७।१०) इति इट्। "इटश्चेटि" (३।६। ५३) इति सिचो लोपः, समानदीर्घत्वम्। 'समस्थिषत, अदिषत' इत्यादि। “समवप्रविभ्यः" (३। २। ४२-१४) इति रुचादित्वात् तिष्ठतेर्ददातेश्च अनुबन्धत्वादात्मनेपदम्, अन्त, सिच्, “स्थादोरिरद्यतन्यामात्मने" (३। ५। २९) इत्यनेन इकार:, "आत्मने चानकारात्" (३। ५। ३९) इति नलोपः, “घ्राशा०" इत्यादिना सिच: स्थितिपक्षे “यमिरमिनम्यादन्तानां सिरन्तश्च" (३। ७।१०) इति पूर्ववत्। वक्तव्यं व्याख्येयमित्याह – केचिदिच्छन्ति, केचिन्नेच्छन्ति। तन्मतप्रमाणमित्यर्थः।। ६३२। ॥ इति श्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायाम् आख्याते तृतीयाध्याये सम्प्रसारणपादश्चतुर्थः समाप्तः।।