________________
१३३
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद: वा दी? न स्यात्, इनिर्देशस्य स्वरूपग्राहकत्वात्। वाशब्दो व्यवस्थावाचीह स्मर्यते, तेनात्मनेपदे वा आहत, आहसाताम्। आवधिष्ट, आवधिषाताम्।। ६२२।
[दु० टी०]
अद्य० । चकार उक्तसमुच्चयमात्रे। "हनिमन्यते त्" (३। ७। २३) इति हन्तेर्नकारादिप्रतिषेधेऽनकारान्ताद् इड् भवत्येव। व्यञ्जनादीनां सेटां विभाषया दीर्घोऽपि नैव, इकश्तिपो धातोः स्वरूपे निर्दिश्यन्ते। एवमत्र स्वरूपत्वं यदि वध एवावतिष्ठते। अकारान्तनिर्देशे हि अस्य च लोपे स्थानिवद्भावात् सिध्यति किन्त्वकार उच्चारणार्थ इति प्रतिपत्त्यर्थ इत्याह - अनान्तत्वादित्यादि। "वा परोक्षायाम्" (३।४।८०) इत्यतो "हन्तेर्वधिराशिषि" (३। ४। ८२) इत्यतिक्रम्य वाग्रहणं मण्डूकप्लुत्या वर्तते, तत्तु व्यवस्थितविभाषया इत्याह – वाशब्द इत्यादि। आङो यमहनौ रुचादी।। ६२२।।
[वि० प०]
अद्य० । "हनिमन्यते त्" (३। ७। २३) इति नकारान्तादेव हन्तेरिटप्रतिषेधः, वध्यादेशे च नान्तत्वाभावाद् इडागमे कृते व्यञ्जनादीनां "सेटामनेदमनुबन्धक्षान्तक्षणश्वसां वा" इति वक्ष्यमाणवचनेन विभाषया दीर्घः कथं न स्यादित्याह – अनान्तत्वादिति। अस्य हेतुमाह - इनिर्देशस्य स्वरूपग्राहकत्वादिति भावः। वधिरिति इनिर्देश: स्वरूपग्राहकः, ततो वैरूप्यहेतुर्न भवतीत्यर्थः। वाशब्द इत्यादि। "आङो यमहनौ स्वाङ्गकर्मको च" (३।२।४२-२२) इति रुचादित्वादात्मनेपदम्। “हने: सिच्यात्मने दृष्टः' इति वचनात् पक्षे नकारलोपः।। ६२२ ।
[बि० टी०]
अद्य० । अवधीदिति। अनान्तत्वादिटि कृते इत्यादि। ननु यद्यनान्तत्वाद् इट्प्राप्तिस्तर्हि 'योक्ता, अत्ता, बोद्धा' इत्यादिषु "चवर्गस्य किरसवर्णे, अघोषेष्वशिटां प्रथमः" (३। ६। ५५) इति कृते जान्तदान्तधान्तत्वाभावान्न कथमिट्। जान्ताद् विहिते प्रत्यये न भवतीति व्याख्यां करिष्यामः। तर्हि 'अवधीत्' इत्यत्र दूषणं स्यात् । विहितविशेषणं चेद् इति इट् न प्राप्नोति, नैवम् । अत्रान्तरङ्गत्वाद् वधादेशो न भवतीति, तत: सिच्परत एवेट्। ननु ‘अवधिष्ट' इत्यत्र किमस्तु, अत्रापि नान्ताद् विहितः सिच्प्रत्ययः ? सत्यम्, "हन्तेर्वधिराशिषि, अद्यतन्यां च" (३। ४। ८२, ८३) इति विषयसप्तमीमाश्रयिष्यामः। किञ्च "इणो गा" (३। ४। ८३) गादेशे कृते ‘अगात्' इति साध्ये “अद्यतन्यां च" (३।४। ८३) इत्यवश्यं विषयसप्तमी मन्तव्या, अन्यथा अडागमस्यान्तरङ्गत्वेन वृद्धिरपि।
तथा च तत्प्राग्वृद्धौ स्थानिवद्भावाद् गादेशे कृते गादिति स्यात्, ततश्च 'ततोऽभ्यगाद् गाधिसुतः' इति भट्टौ न स्यात् । वृत्तावद्यतन्यां परत इति यदुक्तं तत् प्रथमकक्षात:। एकापीयं सप्तमी अर्थवशाद् द्विधा भिद्यते – परसप्तमी विषयसप्तमी च। आदादिकेण्विधानात् कथमुक्तं परसप्तमीपक्षे वृत्तिर्विषयसप्तमीपक्षे बोद्धव्या। यद् वा "वसतिघसे: सात्" (३। ७। २९) इति घसिग्रहणेन ज्ञापयति - सर्वातिदेशे विहितविशेषणं