________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद:
११३ इति ज्ञापनार्थमायिग्रहणम्। यिन्नाय्यो: स्वरत्वे स्वरे यद् दृष्टं कार्य तद् भवतीति व्यञ्जने सन्धिप्रतिषेधात्, अर्थाद् अवावौ स्वरेऽसवर्णलक्षणावित्यदोषः ।।६०७ ।
[वि० प०]
ओतः। 'गव्यति, गव्यते' इति। गामिच्छति, गौरिवाचरतीति यिन्नायी। "नामिव्यञ्जनान्तात्०" (३।६।४२) इत्यादिना परत्वादायेराकारलोपे कृते स्वरस्याभावादवादेशो न स्यादिति। आयेरपि स्वरवद्भाव उच्यते। यदि पुनरन्तरङ्गत्वादवादेशे कृते पश्चात् व्यञ्जनान्तलक्षण आकारलोपो भविष्यतीत्युच्यते, तदा 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २७) इति ज्ञापनार्थमायिग्रहणम्, तेन ‘धिनोति, कृणोति' इति सिद्धम्। नन्वोकारस्य स्वरणैतदेव कार्य यदुक्तम् ओत इति, अपि तु गोशब्दस्याकारागमेऽपि स्वरे निश्चित एव, तस्मिंश्च सत्यव इत्यकारान्तत्वाद् "यिन्यवर्णस्य" (३। ४। ७८) इतीत्त्वे समानदीर्घत्वे च ‘गवीयति, गवायते' इत्यनिष्टरूपं प्राप्नोतीत्याह-अवोऽपीत्यादि। अपिशब्दोऽत्र भिन्नक्रमे योऽयमकारागमस्तस्मिंश्च सत्यवोऽपि स्यात्, न पुनर्नित्यमविति। पुनरर्थेऽपि अव् स्यात्, अ: पुनर्न स्यादित्यर्थः। इष्टत्वादिति न खलु तत् सूत्रम् अपि तु वर्णागम इष्टसिद्ध्यर्थमुपन्यस्त इति कथमनिष्टसिद्धये भवतीति।। ६०७।
[बि० टी०]
ओतो० । ननु 'गव्यति, गव्यते' इत्यत्रावादेशे सति अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वं विद्यते। तत: "अयादीनाम" (१। २। १६) इत्यनेन वलोप: कथन्न स्यात् । नेवम्, तत्र प्रागुक्तानां ग्रहणात्। न च वाच्यम्, अत्रापि "ओ अव्” (१ । २। १४) इत्यनेनावादेश: कार्यातिदेशत्वादनेनैवादेशादकारलोपः। अथवा यत्र प्रकृतिर्विद्यते तत्रैव लोपस्य विषय: एकसूत्रत्वादिति। सामान्येनातिदेशाद् विशिष्टाद् गोशब्दात् स्वरत्वाभाव इति टीका।। ६०७।
[समीक्षा]
'गव्यति, गव्यने, शङ्कव्यं दारु, माण्डव्यः' आदि शब्दरूपों के सिद्ध्यर्थ ओकार के पश्चात् आने वाले यकारादि प्रत्ययों (यिन्-आयि) के परवर्ती होने पर ओकार के स्थान में अवादेश को आवश्यकता होती है। इसकी पूर्ति कातन्त्रकार ने 'यिन् - आयि' प्रत्ययों में स्वर का अतिदेश (स्वरवभाव) करके तथा पाणिनि ने साक्षाद् अवादेश का विधान करके की है। उनका सूत्र है- 'वान्तो यि प्रत्यये' (अ० ६।१। ७९)। वृत्तिकार दुर्गसिंह ने कहा है कि 'गवाजिनम्' की तरह यहाँ 'अव' यह अकारान्त आदेश नहीं होगा, किन्तु वकारान्त 'अव्' आदेश ही उपपन्न होगा, शिष्टजनों के द्वारा अभीष्ट होने के कारण – 'अवाऽपि न स्याद् गवाजिनवद् इप्टत्वात्।
[रूपसिद्धि]
१. गव्यति। गो + यिन् + ति। गामिच्छति, गौरिवाचरति। 'गो' शब्द से आत्मेच्छा अर्थ में 'नाम्न आत्मेच्छायां यिन्'' (३।२। . ) सूत्र में 'यिन्' प्रत्यय, प्रकृत सूत्र से