________________
कातन्त्रव्याकरणम्
५. युवन्ति । यु + वर्तमाना - अन्ति । 'यु मिश्रणे' (२ । ६) धातु से वर्तमानासंज्ञक प्रथमपुरुष - बहुवचन 'अन्ति' प्रत्यय, अन् विकरण का लुक् तथा प्रकृत सूत्र को 'उव्' आदेश।
से
६. रुवन्ति। रु + वर्तमाना - अन्ति । 'रु शब्दे' (२ । १०) धातु से वर्तमानासंज्ञक ‘अन्ति' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
७. लुवन्ति। लू + वर्तमाना - अन्ति । 'लूञ् छेदने' (८।९) धातु से वर्तमानासंज्ञक ‘अन्ति’ प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ५९४ ।
५९५. अभ्यासस्यासवर्णे [ ३ |४|५५ ]
९४
उकार
[ सूत्रार्थ]
इवर्णान्त तथा उवर्णान्त धातु के अभ्यास को 'इय् उव्' आदेश होते हैं, असवर्ण स्वर के परे रहते ।। ५९५ ।
[दु० वृ०]
,
इवर्णोवर्णान्तस्य धातोरभ्यासस्यासवर्णे स्वरे इयुवौ भवतः । इयेष उवोष, इय्यात् । असवर्ण इति किम् ? ईषतु:, ऊषतुः ।। ५९५ ।
[दु० टी० ]
अभ्या० । स्वर इति किम् ? इयाज, उवाप ।। ५९५। [वि० प० ]
अभ्यास०। इषेरुषेश्च लघूपधत्वाद् गुणे कृतेऽसवर्णो भवति, न चात्र 'स्वरादेशः परनिमित्तकः पूर्वविधिं प्रति स्थानिवत्' (का० परि० ९) इति वक्तव्यम्, अत एव वचनात्। न ह्यन्यथा अस्यावकाश उपपद्यते इति । इयृयादिति । 'ऋ सृ गतौ' (२ । ७४) इति जौहोत्यादिकः सप्तम्या: 'यात्' । “अर्त्तिपिपत्त्यश्च" ( ३।३।२५) इतीकारः ।। ५९५।
[बि० टी० ]
अभ्यास०। इयेष, उवोष इत्यत्र पञ्जी । अत एव वचनात् स्वरादेशस्य न स्थानिवदिति कथमुक्तम्, यावता 'इयृयात्' इत्यत्राभ्यासे इयादेशस्य सत्त्वात् ? सत्यम्। 'उवोष' इत्यत्रैव बोद्धव्या पञ्जीपङ्क्तिरिति ।। ५९५ ।
[समीक्षा]
'इयेष, उवोष' आदि शब्दों की सिद्धि अभ्यासघटित 'इ- उ' को 'इय्–उव्' आदेश किए विना नहीं हो सकती, अत: उनका विधान दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है ‘“अभ्यासस्यासवर्णे” (अ० ६।४।७८) । इस प्रकार विधानसाम्य तथा सूत्रशब्दावलीसाम्य से उभयत्र समानता है।