________________
८६
कातन्त्रव्याकरणम्
५९०. अस्यैकव्यञ्जनमध्येऽनादेशादेः परोक्षायाम् [३४५०]
[सूत्रार्थ]
अगुण परोक्षासंज्ञक प्रत्ययों के परे रहते अनादिष्ट धातुगत अकार के स्थान में एकारादेश तथा अभ्यासलोप होता है।। ५९०।
[दु० वृ०]
अगुणे परोक्षायां परतोऽनादेशादेर्धातोरस्यैकव्यञ्जनमध्यगतस्यैत्त्वं भवति अभ्यासलोपश्च।। पेचतुः, पेचुः, नेमतुः, नेमुः। सेहे। चकाराधिकारात् क्वचिद् दीर्घोऽपि गृह्यते। अपपूर्वो राध हिंसायाम्- अपरेधतुः। हिंसायाम् इत्येव - आरराधतः। 'राजिभ्राजिभ्राशिभ्लाशीनां वा वक्तव्यम्' - रेजतुः, रराजतुरित्यादि। अन्यत्र न भवति - चकाशे। थलि च सेट्यप्येवम् – रेजिथ, रराजिथ। असहायव्यञ्जनमध्यगतस्यति किम् ? ततक्षतुः। अनादेशादेरिति किम् ? बभणतुः। अगुण इति किम् ? अहं पपच।। ५९०।
[दु० टी०]
अस्यैक० । एकशब्दोऽत्रासहायवाची। एकं च तत् व्यञ्जनं चेति एकव्यञ्जनम्, द्वयोरसंयोगव्यञ्जनयोर्मध्यगत इत्यर्थः। न विद्यते आदेश आदो यस्येति बहुव्रीहिरगुणे परोक्षायां परत: इत्यादि। ‘णम् प्रह्वत्वे शब्दे, षह मर्षणे' (१ । १५९, ५६०), "णो नः, धात्वादेः ष: सः" (३।८।२५, २४) इति निर्निमित्तके नत्वसत्वे, अत: परोक्षायामनादेशादिर्भवति परोक्षायां परतोऽनादेशादेरिति धातोर्विशेषणेऽप्यर्थादादेश एव विशेषितो भवति। ननु च कृतार्थ परोक्षाग्रहणं कथमादेशो (शेन) विशिष्यते, पच्यते इत्यत्रापि प्राप्नोति अयमप्यगुण इति पूर्ववदभ्यासलोपश्चेत्यन्वाचीयते, तर्हि चकारोऽत्र न संयुज्यत। एवमपि पापच्यते इत्यत्रापि स्यात्, दीर्घादेशोऽत्र बाधको भविष्यति ? नवम्, अभ्यासविकारेषु न बाधते इति। अथ मतम्, नाप्राप्ते अभ्यासविकारे क्वचिद् व्यञ्जनावशष क्वचिद् ह्रस्व अभ्यासलोप आरभ्यते, तथापि श्रुतत्वाद् आवर्तनाच्च परोक्षायामेवेत्त्वं भवति इति। चकारेत्यादि। एवं प्रतिरेधतुः, प्रतिरेधुः। अथ 'राध हिंसायाञ्च' (४१६) इत्यनेन सिद्धम्। राधे: परोक्षायां हिंसायां नास्ति वृत्तिः। एवं भेजे, भेजाते, भ्रशे, भ्रशाते, भ्लेशे, भ्लेशाते। पक्षे–बभ्राज इत्यादि। थलि च सेट्यप्येवम् इति। 'अपरेधिथ, रेजिथ, राजिथ' इत्यादि। एकयोरसहाययोर्मध्ये इत्युक्ते व्यञ्जनग्रहणं सुखप्रतिपत्त्यर्थम्। 'अहं पपच' इत्युत्नमे "अस्योपधायाः" (३।६।५) वा दीर्घ: ।। ५९० ।
[वि० प०]
अस्यैक० । ननु कथं 'नेमतुः, सेहे' इत्यादि। यस्माद् ‘‘णो न:, धात्वादेः षः सः" (३।८।२५, २४) इति कृते आदेशादित्त्वमस्तीति ? तदयुक्तम्, न खल्वत्र "अनादेशादे:'' इति सामान्येन प्रतिषेधः, किन्तर्हि परोक्षायां यो धातुरनादेशादिरिति एतदेव सुखार्थेन सूचितम् अगुणे परोक्षायां परतोऽनादेशादेर्धातोरिति। नत्वसत्वे चोपदेशावस्थायामेव भवतः, न परोक्षानिमित्ते भवितुमर्हतः । तद्विधाने निमित्तस्यानपेक्षत्वात्।