________________
८४
कातन्त्रव्याकरणम्
५८८. " हन्तेर्ज हौ [३। ४। ४८]
[ सूत्रार्थ ]
हन् धातु को जकारादेश होता है हि' प्रत्यय के परे रहते ।। ५८८ । [दु० वृ०]
हन्तेर्जकारो भवति हौ परे । जहि शत्रून् । हेर्व्यक्तित्वात् तातण् ।। ५८८ ।
-
हतात् । परत्वात्
[दु० टी० ]
हन्ते० । अनेकवर्णत्वात् सर्वस्यादेशोऽयम् । हतादिति । " हन्तेर्ज हौ” (३ | ४| ४८) इति जकारश्च प्राप्नोति परत्वात् तातणेव भवतीत्याह - तुह्योस्तातणिति । "धुटि हन्तेः सार्वधातुके" (३ । ४ । ४७) इति नलोपः, तिब्निर्देशश्चेक्रीयितलुग्निवृत्त्वर्थ इति एके - जंघहि ।। ५८८ ।
[वि० प० ]
हन्तेः। हतादिति। परत्वाद् आशिषि " तुह्योस्तातण्" वा इत्यर्थः। “धुटि हन्तेः सार्वधातुके” (३। ४। ४७) इति नलोपः।। ५८८।
[समीक्षा]
पञ्चमी (लोट् लकार) विभक्तिसंज्ञक परस्मैपद - मध्यमपुरुष एकवचन 'हि' प्रत्यय के परे रहते 'हन्' धातु के स्थान में 'ज' आदेश किए विना 'जहि' शब्दरूप की निष्पत्ति नहीं हो सकती, अतः दोनों ही आचार्यों ने 'ज' आदेश का विधान किया है। पाणिनि का सूत्र है – “हन्तेर्ज: ” (अ० ६ । ४ । ३६) । अत: उभयत्र समानता ही है।
"
[रूपसिद्धि]
१. जहि शत्रून् । हन् + अन्लुक् + हि। ‘हन् हिंसागत्योः' (२ । ४) धातु से पञ्चमीविभक्तिसंज्ञक परस्मैपद - मध्यमपुरुष एकवचन 'हि' प्रत्यय, "अन् विकरण: कर्तरि” (३। २। ३२) से अन् विकरण, "अदादेर्लुग् विकरणस्य " (३ । ४ । ९२) से उसका लुक्, “धुटि हन्तेः सार्वधातुके" (३ । ४ । ४७) से हन्- धातुगत नकार का लोप तथा प्रकृत सूत्र द्वारा हकार का जकारादेश ।। ५८८ ।
५८९. दाऽस्त्योरेऽभ्यासलोपश्च [ ३ | ४ । ४९ ]
[ सूत्रार्थ]
दासंज्ञक तथा अस् धातु से 'हि' प्रत्यय के परे रहते उनके अन्तिम वर्ण के स्थान में एकारादेश होता है तथा अभ्यासलोप भी होता है ।। ५८९ ।
[दु० वृ०]
दासंज्ञकस्यास्तेश्च हौ परेऽन्तस्यैकारो भवति, अभ्यासलोपश्च यथासम्भवम् । देहि, धेहि । अस् – एधि । अलोपश्चेति सिद्धेऽभ्यासग्रहणं समस्तलोपार्थम् ।। ५८९ ।