________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः २. जह्याताम्। हा+अन्लुक्, याताम्। 'ओ हाक् त्यागे' (२७१) धातु से सप्तमीसंज्ञक 'याताम्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।।
३. जमुः। हा+अन्लुक् + युस्। 'ओ हाक् त्यागे' (२ । ७१) धातु से सप्तमीसंज्ञक 'युस्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ५८५ ।
५८६. धुटि हन्तेः सार्वधातुके [३। ४। ४६] [सूत्रार्थ]
हन्धातुघटित नकार को लोप होता है, 'धुडादि अगुण सार्वधातुक प्रत्यय के परे रहते।। ५८६।
[दु० वृ०]
हन्तेधुंडादौ सार्वधातुकेऽगुणेऽन्तस्य लोपो भवति। हतः, हथः, आहते, आहताम्। धुटीति किम् ? हन्वः, हन्म:। अगुण इति किम् ? हन्ति। प्रतिषिद्धेटां मध्ये हन्तेरेव सार्वधातुके सम्भवदर्शनार्थमिदम् ।। ५८६ ।
[दु० टी०]
धुटि० । कृतमनपेक्ष्य शर्ववर्मणा विरचितमिदमिति न दुष्यति। वनोति--तनोतीत्यादिना सिध्यतीति कुतश्चोद्यम्।। ५८६।
[वि० प०]
धुटि । आहते, आहतामिति “आङो यमहनौ स्वाङ्गकर्मको च" (३। २। ४२-२२) इति रुचादित्वादात्मनेपदम्। 'हन्वः' इति वमोर्वकारस्य दन्त्योष्ठ्यत्वाद् धुट्त्वाभावः। अथ किमर्थमिदं यावता "वनोतितनोति०" (८। १। ५९) इत्यादिना हन्तेः प्रतिषिद्धेट्त्वादेव सार्वधातुके पञ्चमलोपो भविष्यति, न च गमादीनामस्ति प्रसङ्गस्तेषां विकरणेन व्यवधानाद् आनन्तर्यस्यैव सार्वधातुकेसम्भवादित्याह – प्रतिषिद्धेटामित्यादि। यद्यपि हन्तेरादादिकत्वाद् आनन्तर्य सार्वधातुके सम्भवति तथापि सम्भवस्यैव दर्शनार्थमिदम्। किञ्च यस्मात् कृत्प्रकरणमनपेक्ष्य शर्ववर्मणा प्रणीतम् इदमिति कुतस्तेन सिध्यतीति ।। ५८६ ।
[बि० टी०]
धुटि० । हन्तरेव सार्वधातुके सम्भवदर्शनार्थमिति वृत्तिः। एतेन एतद्देश्यमपास्तम्। हन्ते: सार्वधातुके एवेति प्रकृतिनियम: कथन्न स्यात्, ‘हतः, हतवान्' इत्यादौ पञ्चमलोपो न स्यादिति ।। ५८६।
[समीक्षा]
'हतः, आहते' इत्यादि शब्दों के सिद्धयर्थ नलोप का विधान दोनों व्याकरणों में मिलना है। पाणिनि का सूत्र है – “अनुदानोपदेशवननितनात्यादीनामनुनासिकलोपो झलि क्डिनि"
१. घटसनक वणं - के.खा.चर जडा:टइद तथ: फगभगम है (द्र सर
... १३) पामिनाय झल, प्रन्याहर!