________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद:
[विशेष वचन]
१. यावत्सम्भवस्तावविधिरिति प्रयोगः समवायिरूपभेदः पुनः प्रवृत्तावप्यस्ति (दु० टी०)।
२. आख्यातत्वादाख्यातिकस्यैव लोप इत्यपि प्रतिपत्तिर्गरीयसीति (दु० टी०)।
३. 'निर्दिश्यमानानामादेशिनामादेशाः' इति न्यायात् प्रत्ययस्य सर्वापहारी लोप इत्यर्थः (वि० प०)।
[रूपसिद्धि]
१. अपादि। अट् + पद् + इच् + त। ‘पद गतौ' (३। १०७) धातु से अद्यतनीविभक्तिसंज्ञक त-प्रत्यय, “अड् धात्वादिहस्तन्यद्यतनीक्रियातिपत्तिषु'' (३। ८ । १६) से धातुपूर्व अडागम, “इजात्मने पदेः प्रथमैकवचने" (३।२।२९) से इच् प्रत्यय, "अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु' (३।६।५) से दीर्घ तथा प्रकृत सूत्र से तकारलोप।
२. अलावि। अट् + लू + इच् + त। 'लूञ् छेदने' (८।९) धातु से अद्यतनीसंज्ञक त-प्रत्यय, अडागम, इच्, वृद्धि, आव् आदेश तथा प्रकृत सूत्र से 'त' प्रत्यय का लोप।। ५७१।
५७२. हेरकारादहन्तेः [३।४।३२] [सूत्रार्थ]
अकार से परवर्ती धातुविहित 'हि' प्रत्यय का लोप होता है, हन् धातु को छोड़कर।। ५७२।
[दु० वृ०]
धातोर्विहितस्य हेरकारात् परस्य लोपो भवति अहन्तेः। पच, पठ, भव, दीव्य। हेर्व्यक्तित्वात्- पचतात्। अकारादिति किम् ? याहि। अहन्तेरिति किम् ? जहि शत्रून् । सन्निपातलक्षणस्य वर्णग्रहणे निमित्तत्वात् ।। ५७२।
[दु० टी०]
हेरकारा० । कथमिह लोपो न भवति पचहि, पठहि। हिशब्दोऽयमव्ययो यस्मादर्थे वर्तते इत्याह – धातोर्विहितस्य हेरिति । यस्तु प्रकरणमाश्रयति नासौ विहितविशेषणमाद्रियते, पश्चात् पठतादिति हेर्लोपश्च प्राप्नोति, तातणादेशश्च, तत्र परत्वात् तातण्। पुनः स्थानिवद्भावात् लोपो न भवति। 'सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव' (का० परि० ३६) इति न्यायात्। एवमुत्तरत्रापि "हन्तेर्ज हौ" (३।४।४९) इति हि-प्रत्ययमपेक्ष्य जकारादेशे सति अकारान्तता, ततश्च 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघाताय' (का० परि० ३१) इति न भविष्यति ? सत्यम् । अहन्तेरिति प्रतिषेधो विज्ञापयति - वर्णग्रहणे निमित्तत्वादिति। तेन 'दाक्षिः, प्लाक्षिः' इत्यत्र निमित्तत्वमेव इणोऽवर्णलोपे कर्तव्ये इति मनसि कृत्वाह - सन्निपात इत्यादि।। ५७२।