________________
६२
कातन्त्रव्याकरणम्
[दु० टी०]
इच:। न्यायान्निर्दिष्टस्य प्रत्ययस्य सर्वापहारी लोप इत्याह-इच इत्यादि। अथ किमर्थं तग्रहणम्, इच: परस्य प्रत्ययस्य लोपो भवन् अर्थात् तप्रत्ययस्य निमित्तस्य लोपो विज्ञायते ? सत्यम्। तशब्दस्य लोपे कृते 'तराम्-तमाम्' इत्येतयोरपि प्रत्ययान्तरयोर्लोपः प्राप्नोति 'यावत्सम्भवस्तावद् विधि:' (काल परि० ५४) इति प्रयोगः समवायिरूपभेद: पुन: प्रवृत्तावप्यस्ति भिन्नफलमिति स्यादेव पुन: प्रवृत्तिरिति भावः। तग्रहणे सति न भवतीच: सम्बन्धी यस्तशब्द इति पञ्चम्यामपि ‘अर्थवद्ग्रहणे नानर्थकस्य' (का० परि० ४) इति वा। अत आह-इचस्त इत्यादि। आख्यातत्वादाख्यातिकस्यैव लोप इत्यपि प्रतिपत्तिर्गरीयसीति।। ५७१ ।
[वि० प०]
इचस्त० । सर्वस्येति। 'निर्दिश्यमानानामादेशिनामादेशा:' (का० परि० ७) इति न्यायात् प्रत्ययस्य सर्वापहारी लोप इत्यर्थः। अपादि इति। "इजात्मने पदेः प्रथमैकवचने" (३।२।२९) इतीच। अलावीति। "भावकर्मणोश्च" (३।२।३०) इतीच। “इचस्त०" (३।४।३२) इत्यादि, “आख्यातकिमेकारान्ताव्ययेभ्यः क्रियागुणप्रकर्षवृत्तिभ्य एव तराम तमाम" (२६४०-१) इति तमादित्वात् 'तराम्' प्रत्ययः। यदि तग्रहणं न स्यात् तदा 'यावत्सम्भवस्तावद् विधि:' (का० परि० ५४) इति। अत्रापीच: परस्य तराम्-प्रत्ययस्य लोप: स्यात्। तथापि तदेकदेशस्य तस्य लोप: कथन्न स्यादिति चेत्, नैवम्। तद्ग्रहणे सतीच: सम्बन्धी यस्तशब्द: इति वेदितव्यम्। कश्चेच: सम्बन्धी तकारो यमाश्रित्यासावुत्पद्यते इति, अत एवेच: सम्बन्धी यस्तकार: स: किमर्थं गृहीत: इत्याशङ्कार्थः। तद्ग्रहणमन्तरेण पञ्चम्यपि स्यादिति तरामोऽपि लोप: स्यात् ।। ५७१ ।
[बि० टी०]
इच० । नन्वत्र तकारस्याकार उच्चारणार्थ: किन्त्वकारसहितस्यैव, अतो निर्दिश्यमानानामित्युक्तम्, आकाराभावे न षष्ठी, इच् तलोप इति कृतं स्यात्। इच्सम्बन्धी त 'इच्–त' इति कृते केवलस्य लोपो भविष्यति किं षष्ठीनिर्देशेनेत्याह – इचस्तकारस्येति वृत्तिः ।। ५७१।
[समीक्षा]
'अकारि, अपाचि, अकारितराम्' इत्यादि शब्दों के सिद्धयर्थ इच् (चिण्) प्रत्यय के बाद अद्यतनीसंज्ञक त-प्रत्यय के लोप की आवश्यकता होती है, जिसका विधान दोनों व्याकरणों में किया गया है। पाणिनि का सूत्र है – “चिणो लुक्' (अ०६। ४। १०४)। पाणिनि ने चिण् प्रत्यय तथा कातन्त्रकार ने इच् प्रत्यय किया है। उभयत्र इकारमात्र ही शेष रहता है, शेष अनुबन्ध हैं। लुक्-लोप का भी विधान अपने व्याकरण की व्यवस्थानुसार किया गया है। तराम्-तभाम् के रहने पर तलोप असिद्ध हो जाता है, अत: 'तराम्-तमाम्' घटित तकार का लोप नहीं होता।