________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः रूपं सम्भवति, तदुपलक्षितास्त्विह धातवो गृह्यन्ते इति । ते च पारिशेष्यात् डु दाञ् दाने दाण् दाने, दो अवखण्डने, देङ्-त्रैङ् पालने, धेट् पा पाने, डु धाञ्-डु भृञ् धारणपोषणयोरिति, षडेते धातवः । दासंज्ञायां सत्यां "दा-मा-गायति' (३।४।२९) इत्यादिना आकारस्येकारः । अथ कथम् अदाबित्युक्ते दैपो वर्जनं स्यात्, न ह्यस्य दाबिति रूपमस्ति । न चायं सन्ध्यक्षरान्तः, येनाकारे सति एतदुपपद्यते पकारान्तत्वादस्येत्याह – पकारोऽयमित्यादि । यदि पुनरयं पकारः सन्ध्यक्षरान्तत्वम् उपहन्यात् तदायमेव न कृतः स्यात्, न ह्यस्य प्रयोजनान्तरमस्तीति । तथा चाह – 'नानुबन्धकृतमसन्ध्यक्षरान्तत्वम्, नानुबन्धकृतमनेकवर्णत्वम्, नानुबन्धकृतमसारूप्यमिति' (कलाप० २२१।४०, ३८, ३९) ||४२४ |
[क० च०] __ अदाप्० । ननु अदाप इति लुप्तप्रथमैकवचनं पदम्, लुप्तप्रथमाद्विवचनं वा । अत्र कुलचन्द्रः- अदाबिति लुप्तप्रथमैकवचनम्, लुप्तप्रथमाद्विवचनेन नञ्तत्पुरुषे न दाप् अदाबिति दाप एकत्वाद् द्वित्वानुपपत्तेः । बहुव्रीहिपक्षेऽपि विशेषणत्वानुपपत्तेः । तथाहि न विद्यते दाप् ययोरिति वक्तुं शक्यते, नहि दाधोर्दाबस्ति किन्तु दामात्रस्येति लुप्तप्रथमाद्विवचनपक्षो न युक्तः इति पनीमाक्षिपति । तन्न, दाबित्यनेन दाप् - दैप् इति व्यक्तिद्वयोपस्थापितत्वेन द्विवचनप्रवृत्तौ बाधकाभावात् । न च अदाबिति समुदायस्य विशेषणं न घटते धास्वरूपस्य दाप्त्वाभावादिति वाच्यम्, दा इत्यनेन सम्बन्धेऽपि आनुषङ्गिकतया 'धा' इत्यनेनापि सम्बन्धस्य घटनात्, कथमन्यथा भवन्मतेऽपि अदाबिति प्रथमैकवचनेन धास्वरूपेण सह अदापः सम्बन्ध इति, अतोऽनया रीत्या बहुव्रीहिपक्षेऽपि न दोषः । यद्यपि न दाप् अदाप् तस्य दा अदाब्दाः स च धाश्चेति अदाब्दाधाविति कुलचन्द्रेणोक्तं तदप्यसङ्गतम्, सामानाधिकरण्यसम्भवे तत्पुरुषस्यानौचित्यात् । महान्तस्तु दाप्दैपोर्व्यक्तिभेदस्य विवक्षितत्वान्नञ्तत्पुरुषस्योत्तरपदवदितिन्यायाद् दामात्रविशेषणस्यापि द्विवचनमेवोपपद्यते 'अवर्षा हेमन्ते' इत्यादिवत् । ततश्च दाप च दैप् च दापौ न विद्येते दापौ यत्र दारूपेऽसावदाप्, अदाप् चासौ दाश्चेति अदाब्दाः, स च धाश्चेति अदाब्दाधाविति एकं पदम् । वृत्तौ तु तात्पर्याों दर्शितः, तेन समासे द्विवचनस्य लुप्तत्वात् लुप्तप्रथमाद्विवचनं घटत एवेति ।।४२४।
[ समीक्षा ]
'डु दाञ् दाने, दाण् दाने, दो अवखण्डने, देङ् पालने, धेट पाने, डु धाञ् धारणपोषणयोः' इन छह धातुओं की 'दा' संज्ञा सर्ववर्मा ने तथा 'घु' संज्ञा पाणिनि