________________
कातन्त्रव्याकरणम्
श्रयणात् । न च सामान्ये सति नपुंसकलक्षणो ह्रस्वः सन्दिग्धत्वात् | येषामेतद् रूपं संभवति तदुपलक्षितास्त इह गृह्यन्ते, व्यक्तिप्रधाने सति निर्देशे दोदेङ्टां विकरणे संज्ञा न सिध्यति व्यक्त्यन्तरत्वात् । [ततश्च] प्रणिद्यति, प्रणिदायते, प्रणिधयतीति उपसर्गाण्णेदसंज्ञके णत्वं न स्यात् । तथा विकारे च प्रणिदीयते, प्रणिधीयते । ननु च दोदेङ्टां लाक्षणिकत्वात् कथं दासंज्ञा प्रणिदाता, प्रणिधातेति ? सत्यम् । इह दाप्दैपोः पानुबन्धकरणात् 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' (का० परि० ७५) इति नोपतिष्ठते । यद्येवम्, दीङोऽपि गुणवृद्धिस्थाने सनि चात्वे सति प्रसज्यते, उपादास्तेति सिचीत्वं स्याद् उपदिदासते इत्यभ्यासलोप इस्भावश्चेति, तथा प्रणिदापयति, प्रणिधापयतीत्युपसर्गाण्णेर्णत्वं चेति, नैवम् । दीड आत्वं परनिमित्तं बहिरङ्गम्, दासंज्ञा अन्तरङ्गा (निरपेक्षत्वात् ), तत्र 'असिद्धं बहिरङ्गमन्तरगे' (का० परि० ३३) इति न भवति, सन्ध्यक्षरान्तानामात्वं हि न परनिमित्तम्, 'अविकरणे' इति विषयसप्तमीत्वात् प्रसज्यस्य प्रतिषेधाद् वेति प्रणिदापयति, प्रणिधापयति इत्यत्र च अदाबिति पर्युदासाद् धात्वेकदेशस्य न भवति, 'अर्थवद्ग्रहणे नानर्थकस्य' (का० परि० ४ ) इति वा । किं च श्रुतत्वाद् यक्रियायुक्ताः प्रादयस्तं प्रत्युपसर्गसंज्ञा सिद्धा | 'प्रणिदापयति, प्रणिधापयति' इति प्रागेव दासंज्ञा, पश्चात् पान्तत्वमिति न विरुध्यते । 'दीयते' इति 'डु दाञ् दाने' (२।८४) दाण् दाने (१।२६९) वा, 'धीयते' इति 'डु धाञ्, धेट्' (२।८५; १ | २६४) वा । अदा दाप् लवने (२।२३) दैप् शोधने (१।२६३), नानुबन्धकृतमसन्ध्यक्षरान्तत्वम्' (कलाप० २२१ । ४० ) इति दैप आत्वं सिद्धम्, अनुबन्धः पकारोऽ ऽस्त्यनुवादः कार्यार्थ
इत्याह
पकारोऽयमित्यादि ।
३४
-
ननु च आब्दाधाविति कथन्न कुर्यात्, न विद्यते पकारोऽस्येति सामान्यनिर्देशेऽपि साक्षात् पकारस्याभावादनुबन्ध एव गम्यते । तदयुक्तम् - प्रणिदापयति, प्रणिधापयतीत्यत्रापि पान्तत्वात् प्रतिषेध एव स्यात्, नैवम् । प्रागेवात्र दासंज्ञा प्रवृत्ता, कथं बाधा, अनुबन्धे चरितार्थत्वात् । (नैवम्, न भविष्यति पकारो यस्येति प्रतिपद्येत) अथवा दाब् दैबिति गणे बकारपाठ एवास्ताम्, न विद्यते बकारो यस्येत्यर्थः, तथापि सन्देहः किमयं कृततृतीयः पकारः स्वभावाद् वा बकार इति । तस्माददाबिति युक्तम्, यदा तु प्रणिदापयति, प्रणिधापयतीति भविष्यत्यपि पकारे दोषं दृष्ट्वा अदाबिति बकारान्तं पठति तदा प्रतिपठितगौरवनिरासार्थमेव भवति || ४२४ |
[वि० प० ]
अदाप्० । अदाबिति लुप्तप्रथमाद्विवचनं पदम्, दाधाविति एवं धातूनाम् एतद्