________________
(२)
सङ्गोष्ठ्याम् आगराजनपदे चत्वारि व्याख्यानानि, दिल्लीस्थेन श्रीकुन्दकुन्दभारतीन्यासेन द्विदिवसीयाऽखिलभारतीया सङ्गोष्ठी च कातन्त्रमधिकृत्य समायोजिता आसीत्। श्रीकुन्दकुन्दभारतीन्यासेन कातन्त्रव्याकरणस्य सर्वाङ्गीणपुस्तकालयोऽप्येकः प्रतिष्ठापयिष्यते। यत्र मुद्रितलेखानां मुद्रितग्रन्थानां विविधलिप्यात्मकहस्तलेखानां चापि सङ्ग्रहो भविष्यति। आचार्यकुन्दकुन्दपुरस्कारसम्मानित: प्रो० राजारामजैनमहोदयो व्याकरणमिदं जैनसमाजस्य गौरवग्रन्थं मनुते।
व्याकरणस्यास्य प्रभाव: कच्चायनाख्यपालिव्याकरणे, 'तोलकाप्पियम्' इत्याख्यतमिलव्याकरणे च स्पष्टं परिलक्ष्यते। वङ्ग-कश्मीर-राजस्थानादिप्रदेशेषु श्रीलङ्का-भूटाननेपाल-तिब्बतप्रभृतिदेशान्तरेष्वपि प्रसिद्धं प्रचलितं च व्याकरणमिदं शास्त्रान्तररतानामैश्वर्यसम्भृतानामलसानां लोकयात्रादिषु स्थितानां वणिजां चापि स्वकीयया सरलया संक्षिप्तया च प्रक्रियया महान्तम् उपकारमातनोत् ।
१९९६ तमयीशवीयाब्दस्य जुलाईमासे प्रकाशनसमितेः स्वीकृत्यनुसारं कातन्त्रव्याकरणे आख्यातात्मकस्य तृतीयभागस्य प्रथमखण्डमिदं विदुषां करकमलयोः समुपाहरतो मोमुदीति मे चेतः। खण्डेऽस्मिष्टीकाचतुष्टयस्य सम्पादनं हिन्दीभाषायां सम्पादकीया समीक्षा च विदुषां जिज्ञासूनामनुसन्धित्सूनां च महते उपकाराय नूनं कल्पेत। इतः पूर्व सन्धिप्रकरणात्मक: प्रथमभाग: १९९७ तमे यीशवीयाब्दे, नामचतुष्टयाध्यायस्य पूर्वार्द्धपादत्रितयात्मको द्वितीयभागीयप्रथमखण्ड: १९९८ तमे यीशवीयाब्दे, नामचतुष्टयाध्यायस्योत्तरार्द्धपादत्रितयात्मको द्वितीयभागीयद्वितीयखण्डः १९९९ तमे यीशवीयाब्देऽस्मादेव विश्वविद्यालयात् प्रकाशित: सञ्जातः । इदं नाविदितं विदुषां यद् ‘मोदक देहि' इति वचनाश्रिते व्याकरणेऽस्मिन् सम्पादकेन प्रो० जानकीप्रसादद्विवेदेन १९९७ तमयीशवीयाब्दस्य लक्षमुद्रात्मक: आचार्य-उमास्वामिपुरस्कारः, 'कातन्त्रसिन्धुः' इति सम्मानित उपाधिश्च सम्प्राप्तः। ____ अत्र वङ्गाक्षरेषु शताधिकवर्षपूर्व मुद्रितान् ग्रन्थानधिकृत्य सम्पादनकार्य प्रवृत्तमस्ति। अस्मिन् सम्पादनकार्ये उद्धृतग्रन्थानां सन्दर्भपूरणेन सौष्ठवं किमपि संवर्धितम्। परमोपयोगिभि: परिशिष्टैरस्मिन् शोधकार्यसौविध्यमारचितम्। भूमिकाभागे सम्पादकेन पाणिनीयव्याकरणापेक्षया कातन्त्रीयविध्यादिनिर्देशे साम्यम्, केषाञ्चिद् वचनानां पक्षाणां वा सुखप्रतिपत्ति-प्रपञ्च-- वैचित्र्य-बालावबोधाद्यर्थप्रदर्शनसिद्धान्तादिसूचकवचनसङ्ग्रहश्च कृतः। तत् सर्व सुखेन कातन्त्रीयविषयावबोधाय नूनमलं भवेत् । प्रकीर्ण-दुरूह-महनीयकार्यस्यास्य महता श्रमेण मनोयोगेन च समीचीनसम्पादनाय प्रो० श्रीद्विवेदो धन्यवाद प्रशंसां च नितरामहति । सम्पादनसमीक्षाकर्मणि समर्पितं तमहं सम्प्रीत: सन् विविधैराशीर्वचोभिरभ्युदयेन च