________________
३२
कातन्त्रव्याकरणम्
मीत्यपि प्रयोगः प्राप्नोतीति ? सत्यम्, नैवं लौकिकी विवक्षा दृश्यते किं प्रकारान्तरकल्पनयेति भावः || ४२३। [वि० प० ]
अस्मदि० | अत्वं त्वमित्यादि । गौणत्वं पुनर्युष्मदस्मदोर्विकारत्वात् । विकारो हि प्रकृतिमपेक्ष्य भवति इति प्रकृतेरेव प्राधान्यं प्रकृतिः पुनरयुष्मदस्मदर्थ एव । यद्येवम्, त्वन्मदोरेकत्वे इत्यादिना ज्ञापितस्त्वन्मदादेशोऽपि युष्मदस्मदो: स्थाने न स्यादित्याह – त्वन्मदी त्वित्यादि । अर्थाश्रयो हि शब्दानां गौणमुख्यव्यवहारो न शब्दस्वरूपेण यदाह गौणमुख्ययोर्मुख्यार्थाश्रयत्वात् तथा शब्दोऽपि व्यपदिश्यते इति । न च त्वन्मदादेशविधावर्थचिन्ता कृतेति न विरुध्यते । मध्यमोत्तमयोः प्राप्तयोरुत्तममध्यमविधानार्थं "प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च" (अ० १|४|१०६) इति केनचित् कृतम् इति तदिह कथमित्याह - एहि इत्यादि । प्रहासलक्षणश्चार्थो यातस्ते पितेत्यादि पदान्तरसन्निधानादेव गम्यते । लोके चैकवचनमेव प्रहासे दृश्यत इति एकवच्चेति न वक्तव्यमिति । एवन्तर्हि 'एहि मन्यसे रथेन यास्यामि' इत्यपि प्रयोगः प्राप्नोति चेत् ? सत्यम् । नैवं लौकिकी विवक्षा विधीयते || ४२३ ।
[क० च० ]
-
अस्मदि० । ननु युष्मदस्मदो : स्वार्थापरित्यागेनार्थान्तरप्रवृत्तौ कथं तयोर्गौणत्वात् मध्यमोत्तमौ न स्याताम् इत्युच्यते ? नैवम्, युष्मदस्मदोर्विकाररूपस्य स्वार्थस्य प्रकृतिभूतस्यायुष्मदस्मदर्थस्य विशेषणत्वेन गौणत्वान्नायं विधिरित्याशयेनाह - गौणत्वं पुनरित्यादि । " ग्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च" (अ० १।४।१०६) इति पाणिनिः | अस्यार्थः – पूर्वसूत्रान्मध्यम इत्यनुवर्तते । 'मन्य' इति सूत्रत्वात् तिब्लोप कृत्वा यना सह निर्देशोऽयं 'मनु बोधने' इत्यस्य व्यावृत्त्यर्थः । मन्यतिरुपपदं यस्य धातोस्तस्मिन् धातौ सति परिहासे गम्यमाने तस्मान्मन्योपपदाद् धातोर्मध्यमो भवति, उपपदभूतात्तु मन्यतेश्चोत्तम इति स्वस्वविषये मध्यमोत्तमयोः सिद्धत्वादेवात्रोत्तमविषये मध्यमः, मध्यमविषये चोत्तम इति प्रतीयते । ननु यद्यस्मिन् मते स्वविषय एव मध्यमोत्तमविधिस्तदा कथं 'त्वमत्र मन्ये यदहं पयः पास्यसि सन्ततम्' इति ।
एहि मन्ये मृगाक्षीणामहं प्रेयान् भविष्यसि ।
स्यात् प्रेमविषयस्तासामक्ष्णा काणो भवादृशः ॥ इति च ।
अत्र स्वविषयस्याघटनात् कथं मध्यमोत्तमयोः प्राप्तिरिति ? सत्यम् । " त्रीणि त्रीणि०” (३ । १ । ३) इत्यतः प्रथमाद्यनुवृत्तौ "नामयुष्मदस्मत्सु" इत्येकयोगेनैव सिद्धौ