________________
२६
कातन्त्रव्याकरणम् सत्यम् । उभयथाप्यदोषः। तथाहि नाम्नीत्यनेन स्याद्यन्तस्य प्रतिपादितत्वेन टीकापत्रिकापङ्क्त्योर्नाम्नीत्यस्य कर्तृकर्मस्वरूपार्थेन सह सामानाधिकरण्येन नान्वयः, किन्तु वैयधिकरण्येन । तथाहि नाम्नीति भावसप्तमी, ततश्च नाम्नि प्रयुज्यमाने सति कर्तृकर्मस्वरूपार्थे प्रथमस्तावद् भवतीति अप्रयुज्यमानेऽपीत्यर्थः।
द्वितीये तु प्रकर्षेण युज्यते इति प्रयुज्यमानं प्रत्ययान्तेन धातना सह सामानाधिकरण्येनान्वितस्वरूपम् इति योगार्थस्यावश्यमङ्गीकर्तव्यत्वात्, नामवाच्यार्थेन सह प्रयुज्यमानः इत्यस्य सूत्रे सामानाधिकरण्येनान्वयो घटत एव । अस्मिन् पक्षे पजी एवं व्याख्येया । कर्तृकर्मस्वरूपे नाम्न्यर्थे नामवाच्येऽर्थे प्रथमस्तावद् भवतीत्यनेन सूत्रार्थ उपदर्शितः । तत्रैव विशेषमाह - अप्रयुज्यमानेऽपीत्यादि पनी । तत्र नाम्नीत्यनेन स्याद्यन्त उच्यते । ततश्च नाम्नि स्याद्यन्ते प्रयुज्यमानेऽपिशब्दादप्रयुज्यमानेऽपीत्यर्थः । प्रयुज्यमानग्रहणं किमिति वृत्तिः। ननु प्रयुज्यमानग्रहणं किमर्थं "नाम्नि प्रथमः" इत्युक्तेऽपि नाम्न्यर्थे गम्यमानेऽप्रयुज्यमाने प्रयुज्यमाने च नाम्नि अविशेषाद् भविष्यति ? सत्यम्, 'सप्तम्या निर्दिष्टे पूर्वस्य' (का० परि० २१) इति न्यायात् परभूत एव नाम्नि पूर्वस्य प्रथमः स्यादिति । यथा ‘पचति देवदत्तः' इत्यतः प्रयुज्यमानग्रहणं कृत्वा पूर्वभूतेऽपि नाम्नि परस्य प्रथमो यथा स्यादित्येतदर्थं भविष्यति । पाणिनिनाऽपि एतदर्थमेवोपपदग्रहणं प्रदत्तमिति न्यासकृताप्युक्तमिति | नैवम्, यत्र सत एव पूर्वस्य कार्य विधीयते । तत्रैव 'सप्तम्या निर्दिष्टे पूर्वस्य' (का० परि० २१) इत्यस्या परिभाषाया विषय इति । इह त्वसत एव प्रथमपुरुषस्य कथं पूर्वत्वं प्रतिपत्तव्यमिति सत्यमेतत् । इदं प्रयुज्यमानग्रहणं परत्रैव सफलम्, अन्यथा उक्तार्थत्वाद् युष्मदस्मच्छब्दयोः प्रयोगो न स्यादिति कुलचन्द्रस्याभिप्रायः। ___अस्मिन् पक्षेऽपि वृत्तिरेवं योज्या-प्रयुज्यमानग्रहणं किमर्थमिति, प्रयुज्यमानग्रहणस्योत्तरार्थत्वेन किमित्यर्थः । तत्रैव फलं दर्शयति- धातुनेत्यादि । प्रत्ययान्तेन धातुना युक्ते सामानाधिकरण्येनान्विते युष्मद्यस्मदि च प्रयुज्यमाने इत्यर्थः । तेन हेतुना 'देवदत्तेन हन्यसे त्वम्' इति त्वमित्यस्य प्रयोगः सिद्धः, अन्यथा युष्मद्योगात् मध्यम एव स्यान्न युष्मच्छब्दप्रयोग इत्यर्थः । ननु यदि प्रयुज्यमानग्रहणस्य परसूबे एवं फलं तदा तत्रैव क्रियतां किमत्र पाठेन ? सत्यम्, यदिह प्रयुज्यमानग्रहणमपात्तं तदवयवार्थस्योपस्थापनार्थम, तेन प्रकर्षेण युज्यमानं सम्बध्यमानं प्रत्ययान्तधातुना सामानाधिकरण्यरूपमित्यर्थः सिद्धो भवति, तथा प्रयुज्यमानग्रहणं सामानाधिकरण्यार्थमिति वररुचिः। एतदेव मनसिकृत्याह- पजीकारोऽपि धातुना योगमात्रे पूर्वपक्षयित्वा सिद्धान्तयति चेत् सत्यमित्यादि । अस्मिन् पक्षे वृत्तिरेवं