________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
२५ घटौ, पच्यन्ते घटाः । अप्रयुज्यमानेऽपि - पचति, पचतः, पचन्ति । एवं सर्वत्र । प्रयुज्यमानग्रहणं किम् ? धातुना युक्ते यथा स्यात् । तेन देवदत्तेन हन्यसे त्वम्, मध्यम एव युष्मद्योगात् ।। ४२१।
[दु० टी०]
नाम्नि | नाम्न्यर्थे कर्तरि कर्मणि प्रथमस्तावद् भवति प्रयोगेऽक्रियमाणेऽपि भवतीत्यर्थः । एतच्चोत्तरार्थम्, इह तु सामान्यवाचकाः शब्दाः प्रकरणमन्तरेण विशेषे वर्तितुं नोत्सहन्ते इति देवदत्तादिशब्दाः प्रयोगमर्हन्त्येव । कश्चित् प्रयुज्यमानग्रहणं प्रत्याचष्टे । युष्मदस्मदर्थे भवन्नपि यदानुवादकरूपेण स एवार्थः शब्देनाभिधीयते तदा प्रयुज्यत इति ? सत्यम् । यत्रानूद्य विधेयं भवति तत्रेदं युक्तम् । तस्मादनुवादमन्तरेणापि प्रयोग इष्यते इत्याह – प्रयुज्यमान इत्यादि । ननु किमर्थमिदं यथा ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति सामान्यविहितं दधिदानं साक्षादादिष्टेन तक्रदानेन कौण्डिन्याद् बाधितं कौण्डिन्यवर्जितेभ्योऽवतिष्ठते, तद्वदत्रापि "युष्मदि मध्यमः, अस्मद्युत्तमः" (३।११५, ६) इति वचनात् ? सत्यम् । अर्थनियामकावेतौ किं युष्मदस्मदोरेव मध्यमोत्तमौ उत मध्यमोत्तमावेव युष्मदस्मदोरिति विप्रतिपद्यते ततश्चाद्ये विकल्पेन प्रथमोऽपि युष्मदस्मदोर्भवितुमर्हति ।। ४२१ ।
[वि० प०]
नाम्नि० | कर्तृकर्मस्वरूपे नाम्न्यर्थे प्रथमस्तावद् भवति अप्रयुज्यमानेऽपि नाम्नि भवतीत्यपेरर्थः । एवमुत्तरत्रापि । अप्रयुज्यमानेत्यादि । नन्वत्रापि धातुना देवदत्तस्य नाम्नोऽस्त्येव योगस्तस्य कर्तृत्वादिति चेत् ? सत्यमेतत्, किन्तु गौणोऽसौ युष्मदर्थस्याभिधीयमानत्वात् तेनैव मुख्यः सम्बन्ध इति । यद्येवं युष्मदर्थस्य सम्बन्धस्य मुख्यत्वाद "युष्पदि मध्यमः" (३।११५) इति प्रवर्तिष्यते किमनेनेति ? एवमुत्तरत्रापि त्वया पच्यते ओदनः' इत्यत्र नामार्थस्य मुख्यत्वात् प्रथमो भविष्यति । तथा 'मया पच्यते ओदनः' इत्यत्रापि, कुतः “अस्मयुत्तमः" (३।१।६) इत्यस्य प्रसङ्गः ? सत्यम् ? सुखार्थमेव प्रयुज्यमानग्रहणम् इति ।। ४२१ ।
[क० च०]
नाम्नि० । ननु नाम्नीत्यनेन किं स्याद्यन्तशब्दः किं स्याद्यन्तार्थो वा गृह्यते । तत्राये ‘कर्तृकर्मस्वरूपे नाम्न्यर्थे प्रथमस्तावद् भवति' इति टीकापनीभ्यां सहैकवाक्यस्य विरोधः स्यात्, नाम्नीत्यस्य कर्तृकर्मस्वरूपेण सह सामानाधिकरण्येन निर्दिष्टत्वात् । द्वितीये तु प्रयुज्यमानग्रहणान्वयो न स्यात्, यावता प्रयुज्यते इति प्रयुज्यमान: प्रयोगस्तस्य च शब्दस्वरूपत्वेनार्थेन सह सामानाधिकरण्याभाव इति ?