________________
कातन्त्रव्याकरणम्
यद् वा अग्रे वचनग्रहणस्य खण्डनाद् इह युगपद्ग्रहणं खण्ड्यते । ततश्च “वचने परः पुरुषाणाम्” इति स्थितेऽयमर्थो भवति । तथाहि पुरुषाणामिति कर्तरि षष्ठी तश्चानेकपुरुषप्रतिपाद्ये सति अप्राप्तस्य परपुरुषस्य वचनबलाद् विधिः स्यादिति वचनग्रहणं युगपद्विषये मा भूदिति वृत्तिः । ननु वचनग्रहणाभावे युगपत् परः पुरुषाणाम् इति स्थितेऽपि युगपदिति अभिधेयसप्तम्या युगपदेकक्रियाकालेऽभिधेये परः पुरुषो भवतीति परिभाषेयमुपपद्यत एवेति किन्त्वभिधेयसप्तमीं प्रति कारणाभावाद् युगपदिति विषयसप्तम्या युगपदेकक्रियाकाले विषये पुरुषाणां मध्ये यः परः स भवतीति अप्राप्तिपूर्वको विधिरित्यपि सम्भवति, ततश्च युगपद्विषयस्यानभिधेयत्वेन नामयुष्मदस्मच्छब्दैरुक्ताः कर्तारोऽपि नाभिधेयाः स्युरिति कालसंबन्धं विना साधनाभिधान एव प्रत्ययानामसामर्थ्यात् ततो न साधनकृतं द्विवचनं बहुवचनमिति, किन्तु पुरुषाणामेककालविषये परः पुरुषो भवन् कस्मिन्नर्थे स्यादिति नियमाभावेन यत्सम्बन्धादुत्तमपुरुषप्राप्तिर्दृष्टा, अनेनापि तदर्थाभिधान एव परोऽभिधीयते । एवं सति अस्मत्कर्तर्येव प्रत्ययो न सर्वसाधनं प्रति । ततश्च स पचति त्वं पचसि, अहं पचामि' इत्यत्र तेन त्वया अहं पचामीति प्रयोगः स्यादित्याशयेनैव वृत्तिकृता पचामीत्येवं प्राप्नोतीत्युक्तमिति कुलचन्द्राभिप्रायः । विषयश्चानभिधेय इति एकक्रियाकालस्यानभिहितत्वात् तत्साधनान्यपि नाभिधीयन्त इति । न च तत्कृते द्विवचनबहुवचने, अपि तूत्सर्गसिद्धमेकवचनमेव प्रवर्तते इति पञ्जीकृन्मते पचामीत्येवं प्राप्नोतीति वृत्तिग्रन्थः कथं संगच्छते, यावता साधनानभिधाने सति “अन् विकरणः कर्तरि " (३ । २ । ३२ ) इति कर्तरि विहिते सार्वधातुके विधीयमानोऽनुप्रत्ययो न स्यादिति कुलचन्द्रः पञ्जीमाक्षिपति ।
२२
तत्रैवं युज्यते पञ्जी, तथाहि साधनानि बहूनि नाभिधीयन्ते अपि तु एकमेवास्मत्साधनमभिधीयत एवेति उत्सर्गसिद्धिः, “अस्मद्युत्तमः” (३|१।७) इति सामान्यवचनसिद्धमेकवचनं प्रवर्तत इति । वस्तुतस्तु वचनग्रहणाभावे स पच त्यादिषु पचित्रयवाच्यानां पचनक्रियाणां वाचकानि यानि पचित्रयाणि तेभ्यो विहिता ये प्रथममध्यमोत्तमास्ते प्रत्येकेनैव स्वीयस्वीयप्रकृतिवाच्यक्रियायाः कालं तदाश्रयसाधनं चाभिदधति स्वभावात् । न तु तत्प्रत्ययानामन्यतमेन पचित्रयवाच्यानां क्रियाणां कालः साधनं चाभिधातुं शक्यत इति । ततश्च नामयुष्मदस्मत्कर्तृकाणां वर्तमानादित्रिककालो विषयभूतो विधीयमानपुरुषवाच्ययोग्यो न भवतीति पचित्रयवाच्यक्रियाणां वर्तमानाद्येककालविषयभूतत्वेन सर्वत्रैव परः पुरुषः स्यादिति । ततश्च स पचति'