________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
२१ तूपपदाश्रित इति । तथा "नाम्नि०" (३।१।५) इत्यादिषु अभिधेये सप्तम्याः श्रुतत्वात् प्रत्ययनियमो भवन् अभिधेयाश्रित एव न केवलं नामाद्याश्रित इति संक्षेपः। युगपद्वचन इति किमिति वृत्तिः । अस्यार्थः- युगपद्वचनग्रहणाभावे परः पुरुषाणामिति स्थिते समस्तपुरुषप्राप्तिप्रसङ्गे परः पुरुषो भवतीति वाक्यार्थः स्यात् । ततश्च 'स च त्वं चाहं च पचामः' इत्यादिकं सिध्यत्येव, किन्तु पूर्वपरयोरित्यादिन्यायादेव पूर्वोक्तोदाहरणेषु उत्तमपुरुषस्य सिद्धत्वाद् वचनस्यानर्थकतया भिन्नकालोक्तौ विधि: स्यादित्याशङ्क्याह – स पचति, त्वं पक्ष्यसि, अहम् अपाक्षम् इत्यादि।
अयमाशयः- एककाले ‘स च त्वं चाहं च पचामः' इत्यादिषु परः पुरुषः सुतरां सिध्यत्येव । “सम्प्रति वर्तमाना" (३।१।११) इत्यादिभिर्योगैः “शेषात् कर्तरि" (३।२।४७) इत्यस्यैकवाक्यतया एकक्रियाकालप्रतीतौ विरोधे पूर्वपरयोरित्यादिन्यायात् परपुरुषस्य विधीयमानत्वात् । विरोधेऽपि ‘स पचति' इत्यादिप्रयोगः सिध्यत्येव । "सम्प्रति वर्तमाना" (३।१।११) इत्यादिभिर्योगैः "शेषात कर्तरि" (३।२।४७) इत्यादिनैकवाक्यतया स्वे स्वे काले प्रत्येकं कर्तरि वाच्ये वर्तमानादीनां विधीयमानत्वात् । किन्तु “परः पुरुषाणाम्" (३।१।४) इति (त्यस्यान्यथानुपपत्त्या) भिन्नकाले परपुरुषविधायकत्वे "शेषात् कर्तरि" (३।२।४७) इत्यनेनैव तस्यान्वये सति (एकेन धातुना प्रत्ययेन च) भिन्नकाले परवात् प्रवर्तनं साधनाभिधाने परः स्यादिति नामयुष्मदस्मदामुक्तत्वेन ‘स च त्वं च अहं चापाक्ष्म' इति दुष्टः प्रयोग एव स्यात् । ननु तथापि वृत्तिकृता भिन्नकालोक्तौ ‘स चत्वं चाहं चापाक्ष्म' इति वक्तुम् उचितम् । कथं वयमपाक्ष्मेत्युक्तं नामयुष्मदोरयोगेनानेन बहुवचनप्राप्तेरभावात् ? सत्यमेतत् । किन्तु त्यादीनां सामान्यवाचित्वेनास्मच्छब्दस्य नामयुष्मदस्मदर्थाभिधायकत्वात् लाघवार्थ कर्तृत्रितयबोधनार्थमेव वयमपाश्मेत्युक्तवान् इत्यदोषः । __तथा च स्थितिपक्षे टीकायामपि त्यादीनां सामान्यवाचित्वात् सामान्यार्थाभिधानमिति ‘स च त्वं चाहं च पचामः' इति भवितव्यमेवेत्युक्तम् । स्थितिपक्षादन्यस्मिन् पक्षेऽयमेव विशेषः । यत्तु वयमिति भिन्नकालोक्तावपि वयमपाक्ष्मेति पदं भवतीति । नन्वस्मिन् पक्षे वर्तमानादिकालत्रितयाभिधाने परः पुरुषो भवन् वर्तमानभविष्यतोरपि परः पुरुषो भवितुमर्हति तत्कथमद्यतन्या एव परः पुरुषः प्रत्युदाहृत इति ? सत्यम् । ‘स पचति, त्वं पक्ष्यसि , अहमपाक्षम्' इति कालत्रितयस्यार्थकथनवाक्ये यत्कालवाचकत्वेन यस्या विभक्तेः परपुरुषो दृष्टः, प्रत्यासत्त्या कालत्रितयाभिधानेऽपि तस्या विभक्तेरेव परः पुरुषः प्रवर्तते ।