________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
१९ पदार्थे तु प्रतिलक्ष्ये लक्षणानि भिद्यन्त इति युगपद्वचने सर्वेषामेव प्रवृत्तिः स्यात्, अन्यथा एतल्लक्ष्यविषयाणां लक्षणानामकृतार्थत्वादानर्थक्यमापद्येत । न चैकदा अनेकलक्षणमुपपद्यते इति, किन्तर्हि पर्यायेण स्यात्, अतः परिभाषेयं लिङ्गवती। लिङ्गं पुनरस्या युगपद्वचनमेव, तेन हि पर : पुरुषो लिङ्ग्यते । न च वक्तव्यम् 'पूर्वपरयोः परविधिर्बलवान्' (कलाप० २२८/७०) इति भविष्यतीति किमनेनेति ? यतो युगपद्वचनक्रमाभिधानम्, तत्कथं पूर्वपरविवक्षेति तदनुषङ्गिणां लक्षणानां परमेवास्तीति चेत् तथापि प्रतिपत्तिरियं गरीयसीति ।। ४२०।।
[क० च०]
युगपत् । ननु परमते 'विप्रतिषेधे परं कार्यम्' (का० परि० ६९) इति न्यायाद् यत्र त्यादिप्रत्ययस्य नामयुष्मदस्मत्कर्तृकैकक्रियैककालप्रतिपादने योग्यतास्ति, तत्रैव पुरुषत्रयप्राप्तियोग्ये परः पुरुषो विधीयते । तेन स पचति, त्वं पचसि, अहं पचामीत्यत्र भिन्नस्थानविहितानां प्रत्ययानां सर्वकर्तृकैकक्रियाकालस्याभिधाने शक्त्यभावाद विप्रतिषेधो नास्तीति न तत्र परपुरुषप्राप्तिविषय: । अस्मन्मते तु क्रियाया एककालत्वबोध एव पुरुषाणां मध्ये यः परः स पुरुषो भवन्, स पचति , त्वं पचसि, अहं पचामीत्यत्रापि स्याच्चेदुच्यते - युगपद्वचन इति भावविहितयुडन्तेन सह कर्मणि षष्ठ्याः समासः । तच्च कर्म कर्तारमन्तरेण न संभवतीति क्रियाकालाभिधाने प्रत्ययस्यैव शक्तैर्दृष्टत्वात् त्यादिप्रत्ययेनैव कर्तावगम्यते । ततश्च यः प्रत्ययोऽनेन परिभाषितव्यः, प्रत्यासत्त्या यदि तेनैव सर्वकर्तृकक्रियाकालोऽभिधातुं शक्यते तत्रैवास्य विषय इति । तेन ‘स पचति' इत्यादौ परपुरुषस्यानेककर्तृळियाया एककालाभिधानेऽशक्तत्वान्नास्य सूत्रस्य विषय इति । अशक्तत्वं चात्र एकपचधातोरनेककर्तृगतक्रियावाचकत्वाभावात्, तस्माद् यत्रैकेनैव धातुना नामयुष्मदस्मद्गतक्रियाभिधीयते, प्रत्ययेन च तस्या : क्रियाया : एककाल : प्रतिपद्यते तत्रैवास्य सूत्रस्य विषय इति निर्गलितार्थः।
ननु यस्मिन्नेव कर्तरि प्रथमपुरुषादिर्विधीयते तत्कर्तृकक्रियाया स एव वर्तमानादिकालं प्रथमपुरुषादिरभिधातुं शक्नोति । "नाम्नि प्रयुज्यमाने" (३।११५) इत्यादिभिर्योगैः परस्परविरुद्धार्थेषु प्रथममध्यमोत्तमानां विधीयमानत्वात् । ततश्च ‘स च त्वं चाहं च पचामः' इत्यादिषु नामाद्यनेकककक्रियाया एककालस्योत्तमपुरुषेणानभिधानात् कथमस्य विषय इति । न च अत एव वचनान्नामयुष्मदस्मदर्थेऽपि उत्तमपुरुषस्य विधिरिति वाच्यम्, अप्राप्तिप्रापकत्वेनास्य सूत्रस्य विधित्वापत्तेः । तथा च