________________
१८
कातन्त्रव्याकरणम्
युगपत् समानकाल इत्याह - एकक्रियाकालाभिधान इति । क्रियायाः कालः क्रियाकालः क्रियया य: क्रोडीकृतो भूतभविष्यवर्तमानतया भिद्यमानः कालो गौण उच्यते, एकश्चासौ क्रियाकालश्चेति तस्याभिधानम् एकक्रियाकालाभिधानम् । एवं त्वं च देवदत्तश्च पचथः, अहं च देवदत्तश्च पचावः, त्यदादीनां सामान्यवचनत्वादन्यार्थाभिधानमपि । स च त्वं चाहं च वयं पचाम इति भवत्येव । अप्रवृत्तावित्यादि । जातौ पदार्थे सकृल्लक्ष्ये लक्षणस्य चरितार्थत्वादप्रवृत्तिरेव नान्या निवृत्तिरिति । द्रव्ये तु पदार्थव्यक्तिभेदाच्छास्त्रभेद इति व्यक्त्यन्तरशास्त्रयोरकृतार्थत्वात् पर्यायप्रसङ्ग इति युगपद्वचनं चात्र लिङ्गं परिभाषाया इति । ननूभयोः सावकाशत्वे 'पूर्वपरयोः परो विधिर्बलवान्' (कलाप० २२८।७० ) इति भवत्येद ? सत्यम् । युगपद्वचने पूर्वपरत्वविवक्षा गरीयसीति परिभाषेयम् ||४२० |
[वि० प० ]
युगपत् । युगपच्छब्दोऽयमव्ययस्तत्र समासे षष्ठ्यर्थो भावनीय इति शब्दान्तरेणार्थं दर्शयति - एकक्रियाकालाभिधान इति । क्रियायाः कालः क्रियाकालः क्रियया यः क्रोडीकृतो भूतभविष्यवर्तमानतया स क्रियाकालः । एकश्चासौ क्रियाकालश्चेति एकक्रियाकालस्तस्याभिधानं तस्मिन्निति । अत्र 'अपाक्ष्म' इति पचेरद्यतनीपरस्मैपदोत्तमपुरुषस्य बहुवचनम्, सिजद्यतन्यां सिच्, अडागमः, अस्य च दीर्घः, चवर्गस्य किरसवर्णे, निमित्तात् षत्वम् | वचनमतन्त्रमिति सूत्रे लिङ्ग संख्या कालश्चातन्त्राणीति, तेन ‘पुरुषाणाम्' इति यद् बहुवचनम्, तदतन्त्रमप्रधानम् । अतो द्वयोरपि पुरुषयोर्मध्ये यः परः सोऽपि भवतीत्यर्थः । अपाक्षमिति अद्यतन्या अम्, अन्यत् सकलं पूर्ववत् । उक्तिर्वचनमभिधानम् पर्यायाः | एकक्रियाकालस्येति कर्मणि षष्ठी । तेनैकक्रियाकाले वाच्येऽभिधेये इत्यर्थः सिद्धो भवति । अन्तरेण पुनर्वचनग्रहणं युगपदिति विषयसप्तम्यपि स्यात् । विषयश्चानभधेय इति एकक्रियाकालस्यानभिधीयमानत्वात् तत्साधनान्यपि नाभिधीयन्ते इति न तत्कृते द्विवचनबहुवचने इति, अपि तूत्सर्गसिद्धमेकवचनमेव प्राप्नोतीत्यालोच्याह - वचनग्रहणमित्यादि । अप्रवृत्तावित्यादि । इह हि पदार्थद्वयं जातिर्व्यक्तिश्च । तत्र जातौ पदार्थे एकमेवेदं लक्षणमिति सकृल्लक्ष्ये लक्षणस्य चरितार्थत्वात् । युगपद्वचने समस्तपुरुषप्राप्तियोग्यवाक्ये न कस्यचित् प्रवृत्तिः स्यात् ।
-
तथाहि प्रवर्तमानेन पुरुषेण पुरुषान्तरस्य निवृत्तिं कृत्वा प्रवर्तितव्यम् । जातौ चैकं लक्षणमन्यत्र चरितार्थं कथमन्यन्निवर्तयितुं शक्नोति तस्मादप्रवृत्तिरेव । व्यक्तौ