________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
द्योतक इति ? सत्यम् । प्रसिद्धिवशात् प्राप्तानामनन्तरत्यादीनां यदानन्तर्यं प्राप्तं तदेवाथशब्देन द्योतितमिति । यद् वा आनन्तर्यमुक्तमित्यर्थः । यद्येवम् 'अथशब्दोऽयं द्योतको न वाचक इति' इति पङ्क्तिः कथं संगच्छते ? सत्यम् । स्वरादिशब्दवद् अथशब्दस्यापि आनन्तर्यरूपधर्मस्य वाचकत्वमित्युक्तम् । यत् पुनर्न तु वाचक इत्युक्तम्, तत्तु तदनन्तराणां धर्मिणां त्यादीनामिति बोध्यम्, किन्तु धर्मधर्मिणोरविनाभावसंबन्धाद् धर्मिणामपि प्रतिपत्तिरिति । शास्त्रमध्यमङ्गलार्थोऽपीति । अथशब्दोऽत्र वस्त्वर्थः । तेनायमर्थः– विघ्नध्वंसकारणं वस्त्वपि प्रतिपाद्यमिति, मङ्गलपूर्वकमिति । अन्यार्थमानीतं दधिदूर्वादिकं यथा गच्छतः पुरुषस्य मङ्गलमिति तद्वदत्रापीति भावः । एतेन ‘सकृदुच्चरितः शब्दः सकृदर्थं गमयति' (का० परि० ३६ ) इति न्यायात् कथमर्थद्वयं प्रतिपादयतीति पूर्वपक्षो निरस्तः ।
७
नन्वथशब्दो मङ्गलम्, कथं मङ्गलपूर्वकमित्युक्तम् ? सत्यम्, अथशब्दो विघ्ननाशनकारणस्वरूपमात्मानं प्रतिपाद्य आनन्तर्यमपि प्रतिपादयतीति न दोषः । यद् वा मङ्गलशब्देन विघ्नध्वंसोऽप्युच्यते । अतो मङ्गलं विघ्नध्वंस एव पूर्वो यस्यानन्तर्यस्य तत् तथा । तथा च " भद्रं भद्रं वितर भगवन् ! भूयसे मङ्गलाय' इति भद्रं प्रशस्तं भद्रं मङ्गलं भूयसे मङ्गलाय विघ्नध्वंसाय वितरेति मालतीश्लोको रक्षितेन व्याख्यातः । न ह्यन्यथा श्लोकार्थ उपपद्यत इति । अमी विष्णुमित्रा इत्यादि । ननु अमीशब्द एव पूर्वेषां बुद्धिस्थीभूतानां विष्णुमित्रत्वं प्रतिपादयति, तेन परे नव यज्ञदत्ता इत्युक्तिबाधा न घटते । तत्कथं दृष्टान्तः सङ्गच्छते इत्याह - " इन्ञ्यजादि ० " ( ३ ।२।४५) इत्यादि कुलचन्द्रः । तन्न, 'अमी विष्णुमित्रा : ' इत्युक्ते किममीतिशब्दो बुद्धिस्थीभूते प्रयुक्तः उतस्वित् समुदाये, प्रतिपत्तुरिति सन्देहे 'परे नव देवदत्ताः' इत्युक्त्वा परेषां नवानां विष्णुमित्रत्वस्य दूरीकृतत्वात् ।
वस्तुतस्तु उक्तिबाधा परग्रहणान्नवग्रहणाच्चावगम्यते । तथाहि परशब्दस्य सावधिकार्थत्वाद् अवध्याकाङ्क्षाया उपस्थितत्वात् परस्मैपदमेवावधित्वेन कल्पते । तथा च सति 'परस्मैपदात् पराण्यात्मनेपदानि' इत्युक्ते परेषां परस्मैपदत्वं नास्ति इत्येव गम्यते, परशब्दस्य भिन्नार्थवाचकत्वात् । ननु तथापि परस्मैपदीभूतप्रथमपुरुषापेक्षया परेषां नवानामात्मनेपदसंज्ञा स्यात् नैवम्, नवशब्दसान्निध्येन परस्मैपदमपि नववचनस्यैव संज्ञा | अतस्तदपेक्षया परेषामेव नवानामात्मनेपदसंज्ञाविधानं स्यात्, न तु प्रथमपुरुषापेक्षया इति ।
१. तुल० - ' तव वितरतु भद्रं भूयसे मङ्गलाय' (उ० रा० ३ | ४८ ) ।