________________
कातन्त्रव्याकरणम्
सत्यम् । “इन्द्व्यजादेः" (३।२।४५) इत्यत्रोभयपदविधानात् परस्मैपदीभूतस्य सनोऽपि विधानमस्ति तत: पूर्ववत् सनन्तादिति सूत्रं विना सनन्तस्य "शेषात् कतरि" (३।२।४७) इत्यादिना परस्मैपदस्य प्रसक्तौ तद्बाधया 'पिपक्षते' इत्यादौ आत्मनेपदमपि स्यात्, एतदेव तस्य प्रयोजनमिति । ननु तथापि “सनि दीङः" (३।४।२३) इत्यस्य वैयर्थ्यम्, दीधातोरात्मनेपदित्वेन सन्नुत्पत्तेरभावात् कथं तस्मिन् दीधातोराकारो विधीयते । तस्मादेतस्मादेववचनाद् अथशब्दोऽधिकारार्थो न घटते इति, किं 'न ह्यनिर्दिष्टार्था शास्त्रे प्रक्लृप्तिः' (भोज० परि० १०७) इति पत्रिकायाम् इष्टाश्रयणसमाधानेन ? नैवम्, दीधातुमात्रमादाय सन्नुत्पत्तिज्ञापनेन तस्य सार्थकत्वेऽधिकारनिवृत्तौ सामर्थ्याभावात् । ननु तथापि सनः परस्मैपदस्यापि दीधातोर्दृष्टत्वाद् 'उपदिदासते' इत्यत्र पूर्ववत् सनन्ताद् इति वचनादुपदिदासतीति परस्मैपदमपि स्याद् इत्यशुद्धप्रयोगप्राप्तिरेव विशेष इति इष्टाश्रयणेन पञ्जीकृतं कश्चिदाक्षिपति । तन्न, आशयापरिज्ञानात् । तथाहि सनन्तात् “शेषात् कर्तरि परस्मैपदम्" (३।२।४७) इत्यस्य बाधया "पूर्ववत सनन्तात्" (३।२।४६) इति विशेषवचनेन । सनः पूर्वं यस्माद् धातोर्यत् पदं दृष्टं सनन्तादपि तदित्यात्मनेपदमेव स्यान्न परस्मैपदमिति ।
न च परस्मैपदीभूतसन्नादयोऽपि धातोर्दृष्टा इति सनन्तात् सन्प्रत्ययस्याभावात् परस्मैपदीभूततिप्रत्ययादयो न प्रवर्तन्ते इति वाच्यम्, तद्धातोस्तेषामपि दृष्टत्वात् तस्मात् पञ्जीकृत इष्टाश्रयणपरिहार एव युक्त इति । वस्तुतस्तु (अ) युक्तमिदं यावता सूत्रमिदं व्यर्थीकृत्य तद्बलेनात्मनेपदिनोऽपि धातोः परस्मैपदं सन् विधीयते, तावता सूत्रवैयर्थ्यभयादत्राथशब्दस्याधिकारार्थो न भवति इति कथं नोच्यते ? अथ विनिगमनाविरहादिति चेत्, न । “सनि दीङः" (३।४।२३) इति ज्ञापकस्य सर्वोद्दिष्टत्वात् सर्वेभ्य आत्मनेपदिभ्यः सन् ज्ञापयिष्यते । एवं च सत्यधिकारार्थो न भविष्यति ? सत्यम्, सत्यपि अस्मिन् सिद्धान्ते पत्रीकृता सुखसिद्धान्तार्थम् इष्टाश्रयणं कृतमिति दिक् । [इति तु सिद्धान्तान्तरम् ] | __इष्टाश्रयणं कष्टमित्याह - किञ्चेति । तदैनमपनीय इत्यादि । अथ यद्ययमथशब्दो न क्रियते तदा कथं मङ्गलस्य प्राप्तिस्तदभावाच्च शास्त्रस्य मङ्गलमध्यान्तताव्याघातः स्यात् ? सत्यम् । अथशब्दाभावपक्षे "न प्वोः पदायोद्विरागमः" (२।६।५०) इत्यत्र वृद्धिग्रहणं मङ्गलार्थ भविष्यति, ॐकारो वा पठितव्यः इति किमथशब्देन सन्देहमूलेनेति । येषामानय॑मनेन द्योतितमित्यादि । ननु पदान्तरप्रतिपाद्यार्थस्य प्रकाशके द्योतकः इत्युच्यते, इह तु आनन्तर्यार्थस्य केनाप्यनुक्तत्वात् कथमत्राथशब्दो