________________
कातन्त्रव्याकरणम्
संज्ञकानि भवन्तीति साध्याहारेण वाक्येनान्वय इति । यद् वा यथाश्रुतमेव घटते वाक्यार्थः। तथाहि अथ अनन्तराणि त्यादीनि तानि कतिपयानि ? इति प्रश्ने स्यामहिपर्यन्तानि इत्युत्तरम् । एवम्भूतानि त्यादीनि परस्मैपदसंज्ञकानि भवन्तीति वाक्ये विशेषमाह - "नव पराण्यात्मने" (३।१।२) इति ।
अथ स्यान्मङ्गले प्रश्ने कार्यारम्भेष्वनन्तरे।
अधिकारे प्रतिज्ञायामन्चादेशादिषु क्वचित् ॥ इति बह्वर्थे यद्यप्यथशब्दो वर्तते तथापीह ग्रन्थे कार्यारम्भप्रतिज्ञान्वादेशानामसंभवात् प्रश्नाद्यर्थचतुष्टयमादायैव विचारयन्नाह - इहेत्यादि पनी ।
ननु विघ्नध्वंसार्थं ग्रन्थादौ देवतानमस्कारवदथशब्द एव मङ्गलमिति शिष्टाचारतो निश्चितम् । यत्तु -
ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्जातौ तेन माङ्गलिकावुभौ ॥ इत्यत्र माङ्गलिकावित्युक्तं तत्र स्वार्थ एवेकण – प्रत्यय इति वृद्धाः। ननु यद्यथशब्द एव मङ्गलं तदा कथमथशब्दो मङ्गले वर्तत इत्युक्तम् । नहि मङ्गलं मङ्गलार्थं भवति ? सत्यम् । एकापीयं सप्तमी अर्थवशाद् द्विधा भिद्यते । तथाहि आनन्तर्यादौ द्योत्ये मङ्गले च गम्यमाने अथशब्दो वर्तते उच्चार्यते इत्यर्थः । न चाथशब्दो मङ्गलार्थवाचकः । यथा वैशब्दः पादपूरणे वर्तते, तथा वैशब्दः पादपूरणवाचक इति, किन्तु पादपूरणे कर्तव्ये वैशब्दः प्रयुज्यते इत्यर्थः । यद वा मङ्गले वर्तते इत्यत्र धर्मपरं विवक्षणीयम्, मङ्गलत्वं च प्रतिबन्धकान्यस्य सतः प्रारिप्सितप्रतिबन्धकनिवृत्त्यसाधारणकारणत्वम्, एतच्चात्र न व्याख्यातं ग्रन्थगौरवभयात् । यथा अथ किमिदमिति । नहि किमिदमित्यनेनैव प्रश्नार्थस्योक्तत्वाद् अथशब्दो व्यर्थ इति चेत्, न । अथशब्दस्याव्ययत्वेन द्योतकत्वात् किमिदमित्यनेनैव प्रतिपादितः प्रश्नोऽथशब्देन द्योत्यते इत्यदोषः । यद् वा अथशब्देन सामान्यप्रश्न उपस्थापितः, किमिदमित्यनेन तु विशेषप्रश्न उक्त इति । ___ अथ आचार्यस्य शिष्यप्रश्नानुवादनेऽथशब्दः प्रश्नार्थ एवेति कथं न स्यादित्याह - त्यादीनि तु सर्वथा विदितान्येव इति, पश्चाद् विधास्यमानत्वाद् अविदितान्येवेत्यर्थः । ननु कथमिदमुच्यते, यावता भविष्यत्यपि वस्तुनि प्रश्नो घटत एव । यथा देवदत्तस्यापत्यं भविष्यतीति किन्तदिति । तथा यानि त्यादीनि भविष्यन्ति, तानि कानि ? इति प्रश्ने उत्तरम् – परस्मैपदानीति भविष्यन्ति । नैवम् अपत्यस्य