________________
४१६
कातन्त्रव्याकरणम्
[दु० टी०]
दन्भेः | 'दन्भु दम्भे' (४।१९ ) सनि “ इवन्तर्द्ध ० " (३।७।३३) इत्यादिना इट् पक्षे, “सनि चानिटि" ( ३।५।९) इति चकारादगुणत्वम् । 'मुचोऽकर्मकस्योद्वा वक्तव्यः' इति मुचेरकर्मकस्य यः स्वरस्तस्य ओकारो वा भवति अभ्यासलोपश्च । वक्तव्यम् = व्याख्येयम् | 'मोक्ष असने ' ( ९ | १५० ) इति चुरादौ ' घुषिर् विशब्दने ' (९।१४६) इति प्रतिषेधाच्चुरादेरिन् पक्षे इति किरादिवचनादात्मनेपदम् । 'इच्छामन्तरेण च न क्रिया' इतीच्छा गम्यते मुक्तिक्रियां प्रति आनुकूल्यात् कर्मकर्तृत्वेन, विवक्ष्यते स्वमोचकत्वात् । तदा मुक्षिरकर्मको भवति । यदा 'मुच्तृ मोक्षणे' (५७) मोक्तुमिच्छति इति सन्, तदा सनन्तस्य कर्मकर्तृस्थत्वादात्मनेपदम् || ५३८ ।
[वि० प० ]
दन्भेः । “सनि चानिटि ” ( ३/५/९) इत्यत्र चकारादनामिनोऽपि क्वचिदिति सनोऽगुणत्वमुच्यते, तेन दन्भेरनुषङ्गलोपः । " तृतीयादेर्घढघभान्तस्य " (३।६।१००) इत्यादिना दकारस्य धकारः । सनि सकारादावित्येव - दिदम्भिषति, अत्रापि पूर्ववद् इट् पक्षे । मुच् इत्यादि । मोक्तुमिच्छतीति सन् । द्विर्वचने धातोरकारस्योकारोऽभ्यासलोपश्च । पक्षे “सनि चानिटि" (३/५/९) इति गुणप्रतिषेधो ऽस्त्येव । किरादिश्रन्थिग्रन्थिसनन्ताः कर्मकर्तृस्था इति रुचादित्वादात्मनेपदम् । आनुकूल्यात् कर्मकर्तृत्वमिति । मोक्तुमिष्यमाणे वत्सोऽप्रतिकूलतया । स्वमोचकत्वाद् यदा स्वयमेव मुच्यते इति कर्मकर्तृत्वेन विवक्ष्यते, तदा मुचिरयमकर्मको भवति । तदेतन्न वक्तव्यम् | 'मोक्ष असने' (९/१५० ) इति चौरादिकेन सिद्धम् । 'घुषिर् विशब्दने' (९।१४६) इति विशब्दनप्रतिषेधाच्चुरादेरिन् विभाषितः । किराद्याश्रयणात् पूर्ववदात्मनेपदम् । अथान्तरेण सन्प्रत्ययमिच्छार्थः कथं गम्यते इति चेन्नैवम् | इच्छामन्तरेण क्रिया न सम्भवतीति क्रियावशादेवेच्छार्थोऽपि संभाव्यते । मुचेस्तु पक्षे 'मुमुक्षते' इत्यस्त्येव ।। ५३८|
[समीक्षा]
'धिप्सति, धीप्सति' शब्दरूपों के सिद्ध्यर्थ सन् प्रत्यय के परे रहने पर 'दन्भ्' धातुघटित अकार स्वर को इकार - ईकार आदेश करने की आवश्यकता होती है । इसका विधान दोनों व्याकरणों में किया गया है । पाणिनि का सूत्र है - “दम्भ इच्च” (अ० ७ । ४ । ५६) । अतः उभयत्र समानता है ।